SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ( १०८ ) इतोऽक्त्यर्थात् । २ । ४ । ३२ । क्स्यर्थप्रत्ययान्तवर्जितादिकारान्ताद् नाम्नः स्त्रियां ङीर्वा स्यात् । रात्री रात्रिः । धूली धूलिः । शकटी शकटिः । भूमी भूमिरिस्यादिः । भक्त्यर्थादिति किम् कृतिः, अजननिः । मनोरौ च वा । २ । ४ । ६१ । मनुशब्दाद् धवयोगात् स्त्रियां वर्तमानाद् ङीर्वा स्यात्, तत्संनियोगे च औकार एकारश्चान्तादेशः स्यात् । मनोः स्त्री -मनावी मनायी मनुः । पूतक्रतुवृषाकप्यग्निसितकुसिद्धादौ च । २ । ४ । ६० । धयोगात् स्त्रियां वर्तमानेभ्य एभ्यो ङीर्वा स्यात्, तत्सन्नियोगे चैकारोऽन्तादेशः स्यात् । पूतक्रतोः स्त्री पूतक्रतायी। वृषाकपायी । अग्नायी । कुसितायी । कुसिदायी । सपत्न्यादौ । २ । ४ । ५० । पत्यन्ताद् स्त्रियां नित्यं ङीर्नकारश्चान्तादेशः । समानः पतिर्यस्याः सपत्नी । एकपत्नी । वीरपत्नी इत्यादिः । पतिवत्न्यन्तर्वत्न्यौ भार्या - गर्भिण्योः । २ । ४ । ५३ । भार्या जीवद्भर्तृका, तस्यां वाच्यायां पतिशब्दाद् ङीः, प्रकृतेश्च प्रतिवत्नादेशः पतिवत्नी । गर्भिण्यां वाच्यायामन्तर्वच्छब्दाद् ङीः, अन्तर्वत्नादेशश्च अन्तर्वत्नी । वीवाहितायां स्त्रियां केवलपति
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy