SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ( १०७) कारान्तात् स्त्रियां ङीर्वा स्यात् । सुमुखी अतिकेशी पक्षे सुमुखा अतिकेशा । असहननित्यादि किम् सहकेशा, अकेशा, विद्यमानकेशा, कल्याणीक्रोडा इत्यादौ न भवति । अत्र स्वाङ्ग पारिभा-- षिकं ग्राह्यं यदुक्तम् अविकारोऽद्रवं मूर्त प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत् तन्निमं च प्रतिमादिषु ॥ १ ॥ तेन सुशोफा इति विकारत्वात् , सुस्वेदा इति द्रवत्वात्, सुज्ञाना इत्यमूर्तत्वाद् डीभाजो न भवन्ति । सुकेशी रथ्या, सुमुखी प्रतिमा इत्यादौ स्वस्याङ्गत्वाभावेऽपि पारिभाषिकस्वागत्वाद की। नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाङ्गगात्रकण्ठात् ।२।४॥३९॥ ____ असहादिपूर्वपदेभ्य एभ्यो ङीर्वा स्यात् । सुनासिकी सुनासिका। कृशोदरी कृशोदरा। लम्बोष्ठी लम्बोष्ठा । श्लक्ष्णजङ्घी श्लक्ष्णजया । श्वेतदन्ती श्वेतदन्ता । सुन्दरकर्णी सुन्दरकर्णा । वक्रशृङ्गी वक्रशृगा । बलवद्गात्री बलवद्गात्रा। शङ्खकण्ठी शङ्खकण्ठा । पूर्वेणैव सिद्धे बहुस्वरस्य संयोगोपान्त्यस्य च स्वाङ्गस्य यदि डीस्तदा एषामेव तेनान्येषां न भवतीति नियमार्थ सूत्रम् । नखमुखादनाम्नि । २।४।४। आभ्यां स्वाङ्गाभ्यामसज्ञायामेव ङीर्वा स्यात् । सूर्पनखी सूर्पनखा । चन्द्रमुखी चन्द्रमुखा । अयमपि नियमार्थस्तेनैतदन्तयोरसञ्ज्ञायामेवेति । सूर्पणखा सञ्ज्ञायाम् ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy