________________
(१०६)
- जातेरयान्तनित्यस्त्रीशूद्रात् । २ । ४ । ५४ । .. जातिवाचिनोऽकारान्ताद् नाम्नः स्त्रियां ङीः स्याद् , न चेत्तद् यान्तं नित्यस्त्रीजातिवाचि शूद्रशब्दश्च स्यात् । तत्र जातिरनुगतसंस्थानव्यङ्या एका यथा गोत्वादिः, सकृदुपदेशव्यङ्यत्वे सत्यत्रिलिङ्गान्या यथा ब्राह्मणी, गोत्रचरणलक्षणाऽपरा यथा कठी; तयाचोक्तम्
आकृतिग्रहणा जातिर्लिङ्गानां न च सर्वभाक् ।
सकृदुपदेशनिर्माह्या गोत्रं च चरणैः सह ॥ १॥ . _ कुक्कुटी । तटी। पात्री । वृषली । नाडायनी । बहवृची। जातेरिति किम् मुण्डा, शुक्ला । अयान्तेति किम् इभ्या । गवय-हय-मुकय-मनुष्य-मत्स्यानां तु गौरादिपाठाद् गवयी हयी मुकयी ममुषी मत्सी । नित्यस्त्रीति किम् यूका खट्वा । शुद्रेति किम् शूद्रा। महाशूद्री इति त्वाभीरजातिविशेषः, पुंयोगे तु महाशूद्रस्य स्त्री महाशूद्री ।।
वयस्यनन्त्ये । २।४ । २१ । ____ अन्त्यवयोवर्जिताद् वयोवाचिनोऽदन्ताद् नाम्नः स्त्रियां डीः स्यात् । कुमारी । वधूटी । चरटी । तरुणी । अनन्त्य इति किम् स्थविरा ।
असह-न-विद्यमान-पूर्वपदात्
स्वाङ्गादक्रोडादिभ्यः । २।४।३८ । सह-नञ्-विद्यमान-वर्जितपूर्वपदं यत् कोडादिवर्जस्वाइंतदन्ताद