SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ • [१०] तस्य चातिविस्तृततया समधिक- प्रज्ञा - समयव्ययसाध्यत्वेन, व्यावृत्तेरपि बृहद्वृत्तिवद् अष्टाध्यायी क्रमसहिततया चन्द्रप्रभा - हैमरघु प्रक्रियाभ्यामपि च सरलरीतिप्रकारेण संस्कृत - व्युत्पादनं समभिलाषुकेण निर्मितं मयेदमल्पं व्याकरणम् । अत्र च पूर्वार्धे पञ्च सन्धयः, षडूलिङ्गानि, युष्मदस्मत्प्रक्रिया, अव्ययप्रकरणम्, स्त्रीप्रत्ययः, कारकाणि, समास-तद्धितप्रकरणे च समावेशितानि । उत्तरार्धे पुनः - दश गणाः, यत्र च १७०० धातवः प्रायो निर्दिश वर्त्तन्ते, दश प्रक्रियाः, कृत्यप्रक्रिया, पूर्वकृदन्तानि, उणादयः, उत्तरकृदन्तानि, अन्येऽपि चोपयोगिनो विषया निवेशिताःसन्ति । धातुपाठ - न्याय - द्रव्य - गुण - जात्यादिलक्षणादयोऽपि विषयाः समुपन्यस्ताः सन्ति । प्रायः २४० पृष्ठेषु पूर्वार्धम्, ५०० पृष्ठेषु चोत्तरार्धं समाप्तिमाप्नुतः । भाषायाः सरलतायामप्यादितोऽवसानपर्यन्तं यावदुपयोगोदयं विहितः प्रयत्नः । प्रकाशमधिगच्छति चाद्येतिहासतत्त्वमहोदधिनैनाचार्यश्रीविजयेन्द्रसूरि - सुसान्निध्यतः । कार्ये चास्मिन् न्यायविशारद - न्यायतीर्यपदालङ्कृतेनास्म त्सतीर्थ्येन निर्ग्रन्थेनापि विहितानेकगद्यपद्यहृद्यग्रन्थेन श्रीमन्न्यायविजयेन विदुषा शान्तमूर्तिमुनिराज श्रीजयन्तविजयादिना च प्रसङ्गोचितां सहायतां प्रदायाहं प्रोत्साहितस्तथा च प्रुफसंशोधनादौ
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy