________________
प्रस्तावना।
उपयोगि खलु भाषासौष्ठवाय सद्व्यवहारसिद्धये च व्याकरणम् । संस्कृत-भारत्याः पुनर्मधुरतया, मनोरञ्जकतया, चित्ताकर्षकतया, सन्तोषानन्दावहतया च गीर्वाणवाणीतयैव प्रसिद्धाया अनुभवसिद्धायाश्च समधिगमो निःश्रेयसायापि तत्प्रतिपादकशास्त्रानुप्रवेशकारितया कल्पते ।
संस्कृतव्याकरणानि जैन-नेतराभिरूपप्रणीतानि सन्ति सम्प्रत्यपि बहूनि । तत्र च जैनव्याकरणानामप्रसिद्धावस्थायां' पतितत्वेन पाणिनीयादिव्याकरणानि पठन-पाठनगोचरतया सुव्यापक-प्रचारमवाप्तवन्ति । सुप्रसिद्धनामधेय-भगवत्तादश्रीहेमचन्द्राचार्यविरचित " सिद्धहेम" नामशब्दानुशासनस्य विंशतितो वर्षतो यदाध्ययनं चाध्यापनं च समारब्धं समभवत् जगत्पूज्य-गुरुदेव-शास्त्रविशाग्द-जैनाचार्यश्री १००८ श्री विजयधर्मसूरिस्थापित-संस्कृतविद्यालये काश्यां, तदा काशीस्थ वैयाकरणचूडामणिविबुधानामन्तःकरणानि तस्य सरल शैलीमुचितपद्धति सुगमामथ च साङ्गोपाङ्गां प्रतिपादनसरी च प्रति नम्रीभूतानि, लब्धवच्च तेषां चेतस्सु तत् सुयोग्यप्रतिष्ठास्थानम् , समारब्धवाँश्च तस्य महिमयशःसम्भारेण प्रसरता सह पटनपाठनप्रवृत्तेरपि प्रचारः ।