SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ (१०१.) गौरादिभ्यो मुख्यान की ।२।४ । १९ । • गौरादिगणपठिताद् मुख्याद नाम्नः स्त्रियां डीप्रत्यथः स्यात्। गौरी। शवली। नदी। कल्माषी। सारङ्गी। नर्तकी । अनड्वाही। अनही । पीपली । आकृलिगणोऽयम् । संख्यादेहायनाद् यसि । २ । ४।९। संख्यादेहायनान्ताद् नाम्नः स्त्रियां डीप्रत्ययः स्याद्, वयसि गम्यमाने । द्विहायनी । 'चतुस्नेहयनाद् वयसि' इति नस्य णस्वे चतुर्हायणी । त्रिहायणी । पुरुषाद् वा । २।४।२५। प्रमाणवाचिपुरुषान्ताद् द्विगोः स्त्रियां कीर्वा स्यात् तद्धितलुकि । द्विपुरुषी द्विपुरुषा परिखा। वरुणेन्द्ररुद्रभवशमृडादान् चान्तः । २ । ४ । ६२ । एभ्यो धववाचिनामभ्यस्तद्योगे स्त्रियां डीः स्यात्, तत्संनियोगे आन् चान्तः । वरुणानी । इन्द्राणी। रुद्राणी। भवानी । शर्वाणी। मृडानी । मातुलाचार्योपाध्यायेभ्योडीस्तयोगेवाऽऽन् चान्तः । मातुलानी मातुली । आचार्यानी आचार्टी। उपाध्यायानी उपाध्यायी। आर्यसत्रियाद् वा । २ । ४ । ६६ । आभ्यां डीर्वा स्यात्, तत्सन्नियोगे आन् चान्तः स्वार्थे ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy