SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ११०३) ... वा पादः।२।४।६।.. पादिति बहुव्रीहिनिमित्तकः कृतसमासान्तः पाच्छब्दः, तदन्तात् स्त्रियां ङीर्वा स्यात् । द्विपदी द्विपाद् । त्रिपदी त्रिपाद् । मनः । २।४।१४। मनन्तात् स्त्रियां डीन स्यात् । सीमा सीमानौ सीमानः । अनो वा ।२।४।११। अनन्ताद् बहुव्रीहेः स्त्रियां डीर्वा स्यात् । बहुराज्ञी बहुराड्यौ बहुराज्यः । पक्षे डाप् बहुराजा बहुराजे बहुरानाः, तस्याप्यमावे बहुरानानौ बहुराजानः । नोपान्त्यवतः। २ । ४ । १३ । यस्योपान्त्यलोपो नास्ति स उपान्त्यवान् , तस्मादनन्ताद् बहुव्रीहेः स्त्रियां डीन स्यात् । सुपर्वा सुपर्वाणो सुपर्वाणः । दाम्नः । २ । ४।१०। संख्यादेमन् शब्दान्ताद् बहुव्रीहेः स्त्रियां ङीः स्यात्। द्विदाम्नी। त्रिदाम्नी। पूर्व सङ्ख्यावाचिनोऽभावे तु उद्दामानं पश्य । ___ अणबेयेकण्नस्नटिताम् । २।४।२० । अण् अन्न् एय इकण् नञ् स्नञ् टित् एषांप्रत्ययान्तानां योऽकारस्तदन्ताद् नाम्नस्तेषामेवाणादिसम्बधिन्यां स्त्रियां वाच्यायां ङोः स्यात् । औपमवी । वैदी । सौपर्णेयी । आक्षिकी । स्त्रैणी। पौंस्नी जानुनी । पञ्चतयी । उभयी।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy