________________
(९८)
तत्र इह क्व कदा एतर्हि अधुना इदानीम् सद्यः परेद्यवि पूर्वेयुः उमयेयुः परुत् परारि ऐषमः कर्हि यथा कथम् पञ्चधा एकधा ऐकध्यम् द्वेधम् द्विः पञ्चकृत्वः सकृत् बहुधा प्राक् दक्षिणतः पश्चात् पुरः पुरस्तात् उपरि उपरिष्टात् बहुशः । अधणिति किम् । पथिद्वेधानि संशयत्रैधानि । आ शस इति किम् । पचतिरूपम् । ये चायतर्गणभूताः प्रादयस्ते धातोः प्रागुपसर्गसञ्जका भवन्ति । प्र परा अप् सम् अनु अव निम् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप श्रद् अन्तर् आविस् एते प्रादयो धातोः प्राक् प्रयोक्तव्याः ।
वत्तस्याम् । १।१।३४। वत्-तसि-आमित्येतत्प्रत्ययान्तं नामाव्ययं स्यात् । मुनिना तुल्यं मुनिवद् वृत्तम्। उरसैका दिग् उरस्तः । आम् तद्धितस्यैव ग्राह्यः उच्चस्तराम्। ..
क्त्वा-तुमम् । १ । १ । ३५ । __ क्त्वा-तुम्-अम्-प्रत्ययान्तं नामाव्ययं स्यात् । कृत्वा, कर्तुम्, यावज्जीवम् । -
गतिः ।१।१।३६ । गतिसन्क्षकं नामाव्ययं स्यात् । अदः कृत्वा, अत्राव्ययस्वाद् 'अतः कृकमि-'इत्यादिना सकारो न जातोऽतो विसर्ग एव ।
अव्ययस्य । ३।२।७।