SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ____जस् विशेष्यं वाऽऽमन्त्र्ये । २।१।२६।। .:. युष्मदस्मद्भयां पूर्व विशेष्यं जस्प्रत्ययान्तं सम्बोधनवाचि पदं तद्विशेषणभूते सम्बोधनवाचिनि पदे परेऽसदिव वा स्यात् । विकपार्थो योगारम्भः । जिनाः शरण्या युष्मान् शरणं प्रतिपद्यामहे । पक्षे जिनाः शरण्या वः शरणं प्रतिपद्यामहे । नाऽन्यत् । २।१।२७। . युष्मदस्मद्भयां पूर्व जस्प्रत्ययान्तादन्य विशेष्यं सम्बोधनवाचि पदं तद्विशेषणभृते सम्बोधनवाचिनि पदे परेऽसदिव न स्यात्। आचाय भगवन् त्वा शरणं प्रतिपद्ये । आचार्य भगवन् वां शरणं स्वीकुवें। दृश्यर्थैश्चिन्तायाम् । २।१।३०। चिन्तायां वर्तमानैदृश्यर्थकधातुभिर्योगे वस्नसादि न स्यात् । मनसा त्वां समीक्षते ध्यायति स्मरति वा । परम्परासम्बन्धेऽपि न स्यात । भक्तस्तव रूपं ध्यायति, अत्र ध्यानेन सह सम्बद्धं रूपं तेन सह सम्बद्धस्य तवेत्यस्य परम्परासम्बद्धत्वाद् न भवति । सपूर्वात् प्रथमान्ताद् वा ।२।१ । ३२ । पूर्वपदसहितात् प्रथमान्तात् पदात् परयोर्युष्मदस्मदोरन्वादेशे वस्नसादय आदेशा वा स्युः । यूयं विवेकिनस्तद गुरवो वः सम्मानयन्ति, तद् गुरवो युष्मान सम्मानयन्ति वा ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy