SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ -नौ इत्येतावादेशौ वा स्याताम् । निनोऽयं वा नौ पातु, युवाम् आवां वा । अक्षयसौख्यं वां नौ दद्याद्, युवाभ्याम् आवाभ्याम् वा। जिनोदिते धमें प्रसन्नं मनो वां नौ सदा भूयाद्, युवयोरावयो। हे-उसा ते-मे ।२।१।२३। पदात् परयोर्युष्मदस्मदोडें-इसा सह ते मे इत्यादेशौ वा स्याताम् । धर्मस्ते कल्याणं ददातु, तुभ्यं वा। धर्मो मे चारित्रं ददातु, मह्यं वा । जिनसेवा ते धनमस्ति, तव वा । शीलं मे धनमस्ति, .मम. वा। अमा. त्वा-मा । २।१।२४ । पदात् परयोयुष्मदस्मदोद्वितीयैकवचनेनामा सह त्वा-मा इत्यादेशौ स्याताम् । जिनस्त्वा नरकाद् रक्षतात् , त्वां वा, मा पालेयद्, मां वा। - नित्यमन्वादेशे ।२।१।३१।। - उक्तस्यानुवचनमन्वादेशः, तद्विषये पदात् परयोयुष्मदस्मदोर्यत् काय कथितं तन्नित्यं स्यात् । यूयं सुशीलास्तस्माद् गुरवोवो मानयन्ति । वयं विनीता अत उपाध्याया नो मानयन्ति । असदिवामन्त्र्यं पूर्वम् । २।१।२५ । __ युष्मदस्मद्भ्यां पूर्वमामव्यं पदमसदिव स्याद्, अतो वस्नसादयो न स्युः । भो आचार्या युष्मान् रक्षतु धर्मः ।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy