________________
(९.),
सह तुभ्यं मह्यम् इत्यादेशो क्रमेण स्याताम् । तुभ्यम् । मह्यम् । सुवाम्याम् । आवाभ्याम्।
अभ्यम् भ्यसः ।२।१।१८। 'युष्मदस्मदोः परस्य स्वान्यसम्बन्धिनः चतुर्थीबहुवचनस्य म्यसोऽम्यम् आदेशः स्यात् ।
शेषे लुक् ।२।१।८। - यस्मिन् प्रत्यये परे युष्मदस्मदोरात्त्वयत्त्वादिकार्यमुक्तं ततोऽन्यः शेषः । तस्मिन् शेषे परे तयोरन्तस्य लुक् स्यात् । युष्मभ्यम् । अस्मभ्यम् ।
उसेश्चात् । २ । १ । १९ । युष्मदस्मद्भयां परस्य स्वान्यसम्बन्धिनो सेस्तत्सहचरितपञ्चमीबहुवचनस्य भ्यसश्च स्थाने अद् इत्यादेशः स्यात । अकारों व्यम्जनादित्वनिवृत्यर्थः । त्व-मादेशे अकारलुकि शेषे च लुकि पुन: अकारलुकि त्वत् । मत्। युवाभ्याम् । आवाभ्याम् । युष्मत् । अस्मत । - तव मम डसा । २।१।१५। __युष्मदस्मदोस्तदतत्सम्बन्धिना उसा सह क्रमेण तव ममादेशी स्याताम् । अकः प्राग् । तव । मम । ओसि युवावादेशेऽन्त्यस्य च यत्वे युवयोः । आवयोः ।