________________
आम आकम् । २।१।२०। युष्मदस्मद्भयां परस्य स्वान्यसम्बन्धिन आमः स्थाने आकम् आदेशः स्यात् । 'शेषे लुक्' इति दलोपे युष्माकम् । अस्माकम् । त्वयि । मयि । युवयोः। आवयोः। युष्मासु । अस्मासु । अथानयोर्गौणत्वे रूपाणि निरूप्यन्ते- त्वां मां वाऽतिक्रान्तः इति विग्रहे युष्मदस्मदोरेकलेट वर्तमानत्वेन सर्वत्र स्यादौ त्व-मादेशभवनात् समासे अतित्वद् अतिमद् इत्येवंरूपो शब्दों ज्ञातव्यो, ततोऽग्रे स्यादयः । अतित्वच्छब्दस्य रूपाणि- अतित्वम् अतित्वाम् अतियूयम् । अतित्वाम् २ अतित्वान् । अतिस्वया अतित्वाभ्याम् अतित्वामिः । अतितुभ्यम् अतित्वाभ्याम् अतित्वभ्यम् । अतिस्वद् अतित्वाभ्याम् अतित्वत् । अतितव अतित्वयोः अतित्वाकम अतित्वयि अतित्वयोः अतित्वासु । अतिमच्छब्दस्य-अत्यहम् अतिमाम् अतिवयम् । अतिमाम् अतिमाम् अतिमान् । अतिमया अतिमाभ्याम् अतिमाभिः । अतिमह्यम् अतिमाभ्याम् अतिमम्पम् । अतिमद् अतिमाभ्याम् अतिमत् । अतिमम अतिमयोः अतिमाकम् । अतिमयि अतिमयोः अतिमासु । युवामावां वाऽतिक्रान्त इति विग्रहे सर्वत्र युवावादेशभवनाद् अतियुवद्-अत्यावद्-शब्दौ बोधव्यौ । अतियुवशब्दस्य रूपाणि- अतित्वम् अतियुवाम अतियूयम् । अतियुवाम् अतियुवाम् अतियुवान् । अतियुवया अतियुवाभ्याम् अतियुवाभिः । अतितुभ्यम् अतियुवाभ्याम् अतियुवम्यम्। अतियुवद् अतियुवाम्याम अतियुवद्।अतितव अतियुवयो।