SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ (८९) अथ व्यञ्जनान्ता नपुंसकलिङ्गाः । रकारान्तो वाशब्द:- वाः वारी वारि 'जस्-शसोः शिः। पुनरप्येवम् । वारा वायों वार्मिः । वारे वार्यों वायं। वारः वाया वार्यः । वारः वारोः वाराम् । वारि वारोः वार्षु अत्र रुसम्बन्धिनो रेफस्याभावाद् विसर्गामावः । हे वाः वारी वारि। नित्यबहुवचनान्तः चतुशब्दः- चत्वारि । चत्वारि । चतुर्भिः। चतुर्थ्यः । चतुर्यः । चतुर्णाम् । चतुर्यु नकारान्तोऽहनशब्दः- स्यमोलपि रो लुप्यरि' इति अन्तस्य सारादेशे तस्य च विसर्गे अहः । 'ईडौ वा ' अहनी भहनी, अहानि । पुनरप्येवम् । ' अनोऽस्य ' इत्यकारलोपे अह्ना अहोम्याम् अहोभिः। अहने अहोभ्याम् अहोभ्यः। अह्नः अहोम्याम् अहोभ्यः । अह्नः अह्नोः अनाम्। अहनि अनि अनोः अहःसु अहस्सु । हे अहः हे अह्नी अहनी हे अहानि । नकारान्तो नामन्शब्दः- नाम नामनी, नाम्नी नामानि । नाम नाम्नी, नामनी नामानि । नाम्ना नामभ्यां नामभिः । नाम्ने नामभ्यां नामभ्यः । नाम्नः नामभ्यां नामभ्यः । नाम्नः नाम्नोः नाम्नाम् । नाम्नि, नामनि नाम्नोः नामसु । नाम्नो नकारस्य क्लीबे सम्बोधने वा लुग् इति हे नामन् हे नाम, हे नाम्नी हे नामनी, हे नामानि । ब्रह्मन्-चर्मन्-कर्मन्-प्रभृतीनां 'न वमन्तसंयोगात्' इति निषेधाद् नानोऽकारस्य लुगिति ब्रह्म ब्रह्मणी ब्रह्माणि।
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy