________________
(१७) ब्रह्म ब्रह्मणी ब्रह्माणि । कर्म कर्मणी कर्माणि । इत्यादीनि ।। व्योमन्शब्दस्य तु नामन्वत् । स्यदादीनां तु स्यमोठेपि सेरमावाद् आ द्वेरः । इत्यत्त्वं न ' विरामै वा ' त्यद् त्यत्, द्विवचनादौ अत्त्वे त्ये त्यानि पुनरप्येवम् । एवं तत् ते तानि । यद् ये यानि । एतद् एते एतानि । किं के कानि । इदम् इमे इमानि ।। इदम् इमे इमानि । शेषं पुलिङ्गवत् । चकारान्तः प्रत्यच्शब्द:प्रत्यक प्रत्यग्, ' अच्च् प्राग' इत्यादिनाऽचश्चत्त्वे पूर्वस्य च दीधे प्रतीची । शौ तु 'धुटां प्राग् । इति नोऽन्तादेशे 'तवर्गस्य , इत्यादिना नकारस्य प्रकारे प्रत्यश्चि । प्रत्यग् प्रतीची प्रत्यश्चि । पूजायां तु प्रत्यङ् प्रत्यञ्ची प्रत्यश्चि । शेषं पुंवत् । जगद् . जगतः जगती जगन्ति । पुनरप्येवम् । महत महद् महती महान्ति । पयः पयसी पयांसि 'शिड्हें ' इत्यादिनाऽनुस्वारः। वचः वचसी वचांसि । यशः यशसी यशांसि । तेजः तेजसी तेजांसि । तेजोभ्यां तेजोभिरित्यादीनि । सकारान्तोऽदसूशब्दः- अदः। द्विवचनादौ 'आ ढेरः ' इत्यत्त्वे ' मोऽवर्णस्य ' इति दो मत्त्वे 'मादुवर्णोऽनु' इत्युवणे अमू । 'जस्-शसोः शिः ' इति शौ कृते ' स्वराच्छौ, इति नान्तादेशे नि दीर्घः । इति दीर्धे ' मादुवर्णोऽनु , इत्युवर्णे अमूनि । पुनरप्येवम् । शेषं पुंलिङ्गवत् ।
. इति व्यञ्जनान्तनपुंसकलिङ्गप्रकरणं समाप्तम् ।