SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ( २) टादौ स्वरे विकल्पेन पुंवद्भावभवना प्रियतिसृणा उभयत्रापि सदृशम् । प्रियतिसृभ्यां प्रियतिसृभिः । प्रियतिस्त्रे प्रियतिसृणे प्रियतिसभ्यां प्रियतिसभ्यः । प्रियतिस्रः प्रियतिसृणः प्रियतिसृभ्यां प्रियतिसभ्यः। प्रियतिस्रः प्रियतिसृणः प्रियतिस्रोः प्रियतिसृणोः प्रियतिसृणाम् । प्रियतिस्त्रि प्रियतिसृणि प्रियतिस्रोः प्रियतिसणोः प्रियतिसृषु । एवं प्रियचतुर्शब्दस्यापि । गृ कृ पू इत्यादीनां धातूनां क्विपि इर् उरादेशे गिर किर् पुर् इत्यादिशब्दानां भ्वादिधातुत्वात् " पदान्ते ' इति दीर्धे गीगिरौ गिरः । गिरं गिरौ गिरः । गिरा गीयो गीभिः । गिरे गीर्यो गीर्यः । गिरः गी© गीर्यः । गिरः गिरोः गिराम् । गिरि गिरोः गीर्ष । एवं कीः किरौ किरः। पू: पुरौ पुरः । धूः धुरौ धुरः इत्यादीनि । धकारान्तः समिध शब्दः- तृतीये वा प्रथमे च समित् समिद्, समिधौ समिधः । समिधं समिधौ समिधः । समिधा समिद्भयां समिद्भिः। समिधे समिद्भयां समिद्भयः । समिधः समिद्भयां समिद्भयः। समिधः समिधोः समिधाम् । समिधि समिधोः समित्सु । हे समित् समिधौ समिधः। भकारान्तः ककुभशब्दः- ककुप् ककुब् ककुमो ककुमः । ककुभं ककुभौ ककुभः । ककुभा ककुब्भ्यां ककुभिः । ककुभे ककुब्भ्यां ककुब्भ्यः । ककुभः ककुब्भ्यां ककुब्भ्यः। ककुभः ककुभोः ककुभाम् । ककुभि ककुभोः ककुप्सु । हे ककुप् ककुब ककुभौ ककुभः। दकारान्ताः त्यद्-तद्-यद्-एतद्दशब्दाः, तेषाम् 'आ द्वेरः । इत्यत्त्वे 'लुगस्येत्यादिना अकारलोपे । 'आत् ' इति स्त्रियामापि
SR No.023377
Book TitleDharm Dipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy