________________
(७९) बहुष्वर्थेषु वर्तमानाददसो मकारात् परस्यैकारस्य ईकारः स्यात्। अमी । अमुम् अमू अमून् । अद+टा इति स्थिते इनादेशे प्राप्ठे
___प्रागिनात् । २ । १ । ४८ । अदसो मकारात् परस्य वर्णमात्रस्य स्थाने इनादेशात् प्राग उ इत्यादेशः स्यात् । पश्चाद् 'टः पुंसि ना ' इति नादेशे अमुना अमूभ्याम् अमीभिः । अमुष्मै अमूभ्याम् अमीभ्यः। अमुष्मात् अमूभ्याम् अमीभ्यः । अमुष्य अमुयोः अमीषाम् । अमुष्मिन् अमुयोः अमीषु । अक्प्रत्ययान्तस्य तु सौ
.. अमुको वाऽकि । २।१। ४४।
त्यदादीनामदसः सौ परे असुक इति वा निपात्यते । असुकः असकौ अमुकौ अमुके । अमुकम् अमुकौ अमुकान् । अमुकेन अमुकाभ्याम् अमुकरित्यादीनि सर्ववद्रूपाणि ।
इति व्यअनान्तपुंलिङ्गप्रकरणं समाप्तम् ।