________________
(७८) उशनसः सौ विशेषः 'ऋदुशन:-' इत्यादिना सेर्डा डित्त्वादन्त्यस्वरादेलोपे उशना उशनसौ उशनसः । सम्बोधने
वोशनसो नश्चामन्त्र्ये सौ । १।४ । ८० ।
आमन्व्यार्थे वर्तमानस्योशनसः सौ परे नकारो वा स्यात्, शुक् च वा स्यात् । हे उशनन् लुकि हे उशन उभयाभावे हे उशनः उशनसौ उशनसः । शेषं चन्द्रमस्वद् । पुरुदंशस्-अनेहमशब्दयोः उशनसूशब्दवत् । सम्बोधनैकवचने चन्द्रमस्शब्दवत् । पुरुदंशा पुरुदंशसौ पुरुदंशसः । हे पुरुदंशः हे पुरुदंशसौ हे पुरुदंशसः । अनेहा अनेहसौ अनेहसः । हे अनेहः हे अनेहसौ हे अनेहसः इत्यादीनि । सन्तोऽदस्शब्दः-अदस+सि इति स्थिते
अदसो दः सेस्तु डौ । २ । १ । ४३ । त्यदादिसम्बन्धिनि सौ परेऽदसो दकारस्य सकारः स्यात् , सेस्तु डौ स्यात् । असौ । सर्वत्र स्यादावत्त्वे कृते अद+औ इति स्थिते
मोऽवर्णस्य । २।१। ४५। ___ अवर्णान्तस्य त्यदादेरदसो दकारस्य मकारः स्यात् । "मादुवर्णोऽनु' इति एकमात्रिकस्य स्थाने आसन्न एकमात्रिको द्विमात्रिकस्य स्थाने च द्विमात्रिक उकारः। अमू । अद+जस् इति स्थिते जस इत्वे एकारादेशे च
बहुष्वेरीः । २।१। ४९ ।