________________
६६
જય વીયરાય
वणिजः शालिभद्रस्य भार्याऽस्ति कनकप्रभा
|
जातस्तस्याः सुतोऽस्मीति तत्र नाम्ना विभूषणः । । ९९२ ।।
अथ सूरिं सुधाभूतमासाद्य शुभकानने ।
पुनर्दृष्टौ मया भद्रे !, महत्तमसदागमौ ।। ९९३ ।। ततश्च, तत्त्वश्रद्धानसम्पन्नो, भावतो विरतिं विना । जातो गुरूपरोधेन, श्रमणोऽहं तदानघे ! ।।९९४।। ततो गृहीतलिङ्गस्य, साधुमध्येऽपि तिष्ठतः ।
जातं मे कर्मदोषेण वैभाष्यनिरतं मनः । । ९९५ ।। ततः प्रबलतां प्राप्ता महामोहादयः पुनः । जातौ च भावतो दूरे, महत्तमसदागमौ । । ९९६ ।। ततो निमित्तमासाद्य, निमित्तविरहेण वा । स्वभावादेव सम्पन्नस्तदाऽहं परनिन्दकः । । ९९७ ।। तपस्विनां सुशीलानां, सदनुष्ठानचारिणाम् । अन्येषामपि कुर्वाणो, निन्दां नो शङ्कितस्तदा ।। ९९८ ।। किं बहुना,
"
,
/
तीर्थेश्वराणां सङ्घस्य, श्रुतस्य गणधारिणाम् । आशातनां दधानेन, मया पृष्ठं न वीक्षितम् ।।९९९ ।। गृहीतयतिवेषोऽपि, पापात्मा गुणदूषकः । महामोहवशाज्जातो, मिथ्यादृष्टिः सुदारुणः ।।१०००।।