________________
परिशिष्ट -.१ : सूत्र -- 15।
.२४3
પરિશિષ્ટ - ૧
सूत्र - टी जय वीयराय ! जगगुरु ! होउ ममं तुह पभावओ भयवं । भवनिव्वेओ मग्गाणुसारिआ इट्ठफलसिद्धि ||१|| लोगविरुद्धच्चाओ गुरुजणपूआ परत्थकरणं च । सुहगुरुजोगो तव्वयणसेवणा आभवमखण्डा ।।२।।
टीकाः- जय वीतराग! जगद्गुरो! इति भगवतस्त्रिलोकनाथस्य बुद्ध्यां सन्निधानार्थमामन्त्रणम्, भवतु जायतां ममेत्यात्मनिर्देशः, तव प्रभावतः तव सामर्थ्येन, भगवन्निति पुनः सम्बोधनं भक्त्यतिशयख्यापनार्थम् । किं तदित्याहभवनिर्वेदः संसारनिर्वेदः । न हि भवादनिर्विण्णो मोक्षाय यतते, अनिर्विण्णस्य तत्प्रतिबन्धान्मोक्षे यत्नोऽयत्न एव, निर्जीवक्रियातुल्यत्वात् । तथा मार्गानुसारिता असद्ग्रहविजयेन तत्त्वानुसारिता, तथा इष्टफलसिद्धिरभिमतार्थनिष्पत्तिः ऐहलौकिकी, ययोपगृहीतस्य चित्तस्वास्थ्यं भवति तस्माच्चोपादेयप्रवृत्तिः । तथा लोकविरुद्धत्यागः सर्वजननिन्दादिलोक विरुद्धानुष्ठानवर्जनम् । यदाह . सव्वस्स चेव निंदा, विसेसओ तह य गुणसमिद्धाणं । उज्जुधम्मकरणहसणं रीढा जणपूयणिज्जाणं ।।१।।