________________ तत्कालीनकरग्रहग्रहविधा-वब्दे ह्यभूद् वैक्रमे, तिथ्याराधनकारणेन करुणो भेदस्तपागच्छजः / कारुण्यैकरसेन तेन गुरुणा सत्पट्टकादात्मनो, बशेन निवारितः खकरखौ-ष्ठे पिण्डवाडापुरे // 6 // (वसन्ततिलका) तत्पट्टभृद् भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानतपसां निधिरुग्रशीलः / न्याये विशारद इतीह जगत्प्रसिद्धो, जातोऽतिवाक्पतिमति-मतिमच्छरण्यः // 7 // तस्याद्यशिष्यलघुबन्धुरथाब्जबन्धु-तेजास्तपःश्रुतसमर्पणतेजसा सः / पंन्यासपद्मविजयो गणिराट् श्रियेऽस्तु, क्षान्त्येकसायकविदीर्णमहोपसर्गः // 8 // सर्वाधिकश्रमणसार्थपतिर्मतीशः, पाता चतुःशतमितर्षिगणस्य शस्यः / गच्छाधिनाथपदभृज्जयघोषसूरिः, 'सिद्धान्तसूर्य' - यशसा जयतीह चोच्चैः // 9 // सद्बुद्धिनीरधिनिबोधनबद्धकक्षः, वैराग्यदेशनविधौ परिपूर्णदक्षः / सीमन्धरप्रभुकृपापरपात्रमस्तु श्रीहेमचन्द्रभगवान् सततं प्रसन्नः // 10 // कारुण्यकम्रालयानां महनीयमुख्यानां महोमालिनां लोकोपकारचतुराणां वैराग्यदेशनादक्षाचार्यदेव-श्रीमद्विजयहेमचन्द्रसूरीश्वराणां सदुपदेशेन श्रीजिनशासनआराधनाट्रस्ट-विहिते श्रुतसमुद्धारकार्यान्वये प्रकाशितमिदं ग्रन्थरत्नं श्रुतभक्तितः / वि.सं. 2068 /