________________ अथ ग्रन्थप्रकाशकप्रशस्तिः ___ (शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदेवस्मयः, जिह्वाखण्डितशक्रसंशयचयो, वाङ्नष्टहालाहलः / सर्वाङ्गीणमहोपसर्गदकृपा-नेत्राम्बुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात्-श्रीवर्धमानो जिनः // 1 // (उपजाति) श्रीगौतमस्वामि-सुधर्मदेव-जम्बूप्रभु-श्रीप्रभवप्रमुख्याः / सुरीशपूजापदसूरिदेवा, भवन्तु ते श्रीगुरवः प्रसन्नाः // 2 // (वसन्ततिलका) एतन्महर्षिशुचिपट्टपरम्पराजान्-आनन्दसूरिकमलाभिधसूरिपादान् / संविग्नसन्ततिसदीशपदान् प्रणम्य, श्रीवीरदानचरणाश्च गुरून् स्तविष्ये // 3 // श्रीदानसूरिवरशिष्यमतल्लिका स, श्रीप्रेमसूरिभगवान् क्षमया क्षमाभः / सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली // 4 // (शार्दूलविक्रीडितम्) प्रत्यग्रत्रिशतर्षिसन्ततिसरित्-स्रष्टा क्षमाभृद्महान्, गीतार्थप्रवरो वरश्रुतयुतः सर्वागमानां गृहम् / तर्के तर्कविशुद्धबुद्धिविभवः सोऽभूत् स्वकीयेऽप्यहो, गच्छे संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणीः // 5 //