________________
'७८ / डिवा
हे प्रापति, मभि सखयो छ, ५२वातQ! उपाय; .. દેષ ન લાગે આપને, કાજ સહુ સિદ્ધ થાય. ૧૧-૨૪
(नगाभ्यान) (४) ततः सकीर्त्यमानेषु राज्ञां नामसु भारत ।
ददर्श भैमी पुरुषान पञ्चतुल्याकृतीनथ ॥ ५७-१० तान् रामीक्ष्य ततः सर्वान् निर्विशेषाकृतीन् स्थितान् । संदेहादथ वैदभी नाम्यजानान्नलं नृपम् ॥ ५७-११ यं यं हि दद्दशे तेषां तं तं मेने नल नृपम् । सा चिन्तयन्ति बुद्धयाथ तर्कयामास भाबिनी. ॥ ५७-१२ कथं हि देवाजानीयां कथं विद्या नलं नृपम् । एवं संचिन्तयन्ती सा वैदभी भृश दुःखिता ॥ ५७-१३ शृतानि देवलिङ्गानि तर्कयामास भारत । तानीहं तिष्ठता भूमावेकस्यापि न लक्ष्यते ॥ ५७-१४ -सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः । शरणं प्रति देवानां प्राप्तकालममन्यत ॥ ५७-१५ वाचा च मनसा चैव नमस्कार प्रयुज्य सा । देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् ॥ ५७-१६ हंसानां वचनं श्रुत्वा यथा मे नैषधी वृत्तः । पतित्वे तेन सत्येन देवास्तै प्रदिशन्तु मे ॥ ५७-९७ वचसा मनसा चैवयथा नाभिचराभ्यहम् । तेन सत्येन मे विबुधास्तमेव प्रदिशन्तु मे ॥ ५७-१८ ।। यथा देवैः स मे भर्ता विहितो निषधाधिप । तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥ ५७-१९ यथेदं व्रतमारब्धं नलस्याराधने मया । . .. तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥ ५७-२०