________________
:Xxx
... .. ..
[Hoy Abu
Appendix to Introduction ĀBU IN THE EIGHTH CENTURY A. D.
From Kuttani-Matam or Shambhali-Matam by Dāmodara Gupta (755-786 A. D., chief minister of Jayapida of Kashmir), ed. with comm. by Tanasukhrām Manassukharām Tripāțhi, Bombay, A. D. 1924. ]
• अथ विदितसकलशास्त्रो विज्ञाताशेषजनसमाचारः । निजगृहगमनाकाङ्क्षी स शिलोच्चयमबुंदं प्राप ॥ २३८॥ तत्पृष्ठदेशदर्शनलोलमति सुन्दरं परिज्ञाय । गुणपालितो बभाषे विलोक्यतामदिराज इति ॥२३९ ॥ “एष सुतः ‘सानुमतः स्यन्दच्छीताग्छसलिलसंपनः । लोकानुकम्पयेव प्रालेयमहीमृता मरौ न्यस्तः ॥ २४० ॥ शिशिरकरकान्तमौलिः कटकस्थितपवनभोजनः सगुहः । विद्याधरोपसेव्यो विभर्ति लक्ष्मीमयं शम्भोः ॥२४१॥ अत्र तरुशिखरसङ्गतसुमनस इति जातविस्मयो मन्ये । अमिलषति समुञ्चेतुं तारा निशि मुग्धकामिनीलोकः ॥ २४२ ॥ हारीताहितशोभो मुदितशुको व्यासरमणीयः। विश्रान्तभरद्वाजः समतामयमेति मुनिनिवासस्य ॥ २४७॥ अस्मिन्निःसङ्गा अपि परलोकप्राप्त्युपायकृतयत्नाः ।। गन्धवहभोजना अपि न हिंसकाः, फलभुजोऽपि न प्लवगाः ॥ २४८ ॥ शुभकमैकरता अपि षट्कर्मण्या, यता अपि स्ववशाः । अनमिमतरौद्रचरिताः विवप्रिया अपि, वसन्ति शमनिरताः ॥ २४९ ॥ मूर्तिरिव शिशिरश्मेहरिणवती, सप्तपत्रकृतशोभा। सरणिरिव चण्डभासः, पलाशिनी यातुधानजायेव ॥ २५०॥ सोत्कण्ठेव समदना, वासकसज्जेव कृततिलकशोभा। बहुहरिपीलुसनाथा नरनाथद्वारभूमिरिव ॥ २५१ ॥ अर्जुनबाणवातैः कुरुनाथवरूथिनीव संछना। ऋक्षसहस्रोपचिता लक्ष्मीरिव गगनदेशस्य ॥ २५२ ॥