________________
[६५
द्वितीयः सर्गः । कृष्णस्यबाल्यावस्था ॥]
ववृधे गोकुले बालः पाल्यमानो यशोदया । सिच्यमानः शचीदेव्या कल्पद्रुरिव नन्दने ॥२०८॥ गच्छन्नुत्सङ्गमुत्सङ्गात्पाणि पाणेश्च सञ्चरन् । स गोकुलमृगाक्षीणामभूदत्यन्तवल्लभः ॥२०९॥ तं तमुत्सवमुद्दिश्य तनयालोकनोत्सुका । अगमद् गोकुले देवी वात्सल्येनान्तरान्तरा ॥२१०॥ साऽपीप्यत्सूनवे स्तन्यं स्नेहतः प्रस्तुतस्तनी । मुहुरुल्लापयाञ्चक्रे विविधोल्लापपण्डिता ॥२११॥ ध्रुवं भाग्यैरहं त्यक्ता त्यक्ताऽनेन सुतेन यत् । इति स्वमन्तर्निन्दन्ती नन्दपत्नीमुवाच सा ॥२१२॥ त्वं यशोदे ! त्रिभुवनस्त्रीणामुपरि वर्तसे । तनयेनामुना नित्यमङ्कस्ते यदलङ्कृतः ॥२१३॥ कुलं वा गोकुलं वाऽपि रम्यं यत्रैष खेलति । प्रशस्यैवं यशोदां सा मन्थरं मथुरां ययौ ॥२१४॥ वैरं पूर्वमथ स्मृत्वा पूतना शकुनिस्तथा । विद्याधर्यावुपागत्य विष्णोनिधनमीषतुः ॥२१५।। ते च देवतया मृत्यु लम्भिते कृष्णगृह्यया । स एव निधनं गच्छेदिच्छेदत्यहितं सताम् ॥२१६।। रिङ्खन्नस्खलितं कृष्णः कण्ठीरवकिशोरवत् । गोकुले दधिदुग्धानां हठाद्भाण्डान्यलूलुठत् ॥२१७॥ सोऽभूत्तथापि गोपालप्रेयसीनामतिप्रियः । पश्य कस्यापि न द्वेष्यस्तपनोऽतितपन्नपि ॥२१८॥ सप्ताष्टहायनः सोऽथ यशोभिर्व्यानशे दिशः । चम्पकप्रसवो नव्यः स्फुटन्परिमलैरिव ॥२१९॥ गुणैर्लोकोत्तरैस्तैस्तैरिदानी नन्दनन्दनः ।। विजयी गोकुलेऽस्तीति पप्रथे मथुरान्तरे ॥२२०॥
१. मरणम् ।