SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ अष्टादशः सर्गः । ग्रन्थ समाप्तिः ॥ ] एतस्य स्तुतये कुतूहलितया जिह्वान्तयोगासनान्यध्यास्ते कविमण्डलस्य नियतं देवी गिरामीश्वरी । कुण्ठीयन्ति कनीयसोऽपि कवितुं येऽन्ये प्रबन्धान्मुहुः तेऽप्यस्मिन् किमपि प्रगल्भवचसो वाचस्पतीयन्ति यत् ॥ २७६ ॥ एतस्मिन् व्यवहारकौशलमिह व्युत्पत्तयः प्रश्रयप्रायेषु प्रसभं गुणेषु दधते बैदग्ध्यमस्मद्गिरः । अस्मिन् संवननप्रपञ्चपटिमा कीर्तेरुदात्तक्रम - स्त्रैलोक्याभयदानपीनमहिमा धर्मोऽप्यमुष्मिन् परः ॥२७७॥ एकस्यापि महात्मनोऽस्ति चरितं यस्मिंस्तदप्यास्पदं कल्याणस्य न कस्य यत्पुनरलंचक्रुस्त एतेऽद्भुताः । श्रीनेमिर्मुशली हरिप्रतिहरी पाण्डोः सुताः कौरवा भीष्मः कर्णकृपादयश्च बहवस्तस्यास्य किं ब्रूमहे ॥२७८॥ किंत्वस्मिन्नियमस्ति दोषकणिका वक्ता यदस्मादृशः । सन्तः सच्चरितामृतैकरसिकास्तस्यामनास्थापराः । सौरभ्यस्पृहयावतंसपदवीं पङ्केरुहं लम्भयन् पङ्कोत्पत्तिकलङ्कमस्य मतिमान् को नाम मीमांसते ? ॥ २७९ ॥ षष्ठाङ्गोपनिषत्त्रिषष्टिचरिताद्यालोक्य कौतूहलादेतत्कन्दलयाञ्चकार चरितं पाण्डोः सुतानामहम् । तत्राज्ञानतमस्तिरस्कृतिवशादुत्सूत्रमासूत्रयं यत्किञ्चिन्ननु मय्यनुग्रहधिया शोध्यं तदेतद् बुधैः ॥ २८०॥ यावत्संसारतापव्यतिकरभिदुरा वाग् जिनानां मुनीन्द्रप्रज्ञाकान्तावगाढा विधुरयति सुधादीर्घिकादर्पमुद्राम् । तावन्निर्निद्रकार्तस्वरकमलकलां पुष्पदश्रान्तमस्यां [ ७१९ विश्वं विद्वद्विरेफार्पितमहिममहाकाव्यमेतद्धिनोतु ॥२८१ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये बलदेवस्वर्गगमन - श्रीनेमिनाथ- पाण्डवनिर्वाण-वर्णनो नामाष्टादशः सर्गः ॥ समाप्तश्चायं ग्रन्थः । 5 10 15 20 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy