________________
10
सप्तदशः सर्गः । जराकुमारेण कथितो द्वारकादाहवृत्तान्तः ॥]
[६८९ सोऽप्युवाच शृणु भ्रातर्यातोऽरण्यमहं तदा । व्याधवृत्तिश्चिरं स्थित्वा जातु बाणं मृगेऽक्षिपम् ॥२४९॥ अथादित्सुः शरं गच्छन्नहमन्तरितो द्रुमैः । अहो ! कोऽयमनागस्कं सुखसुप्तमनालपन् ॥२५०॥ बाणेनाघितले बाढं निघृणो निजघान माम् ? । मया तु जातु नाज्ञातनामगोत्रो हतः परः ॥२५१॥ वेगादेष तदाख्यातु नामगोत्रे निजे मम । येनाहमपि नाराचं तं प्रति प्रतिसंदधे ॥२५२॥ श्रुत्वेति कस्यचिद्वाचं धीरोदात्तां महात्मनः । 'नैणोऽयमिति निश्चिन्वन्खेदमासादयं परम् ॥२५३॥ चतुर्भिः कलापकम् । दशमस्य दशार्हस्य सूनुरानकदुन्दुभेः ।। नाम्ना जराकुमारोऽस्मि जरादेव्यास्तनूद्भवः ॥२५४॥ निर्मानुषे वसाम्यत्र वने केनापि हेतुना । कोऽसि त्वं पुनरित्युच्चैर्दूरस्थस्तमवादिषम् ॥२५५।। ततः सोऽवददेह्येहि ज्यायोभ्रातरहं हरिः । स एवास्ति प्रयत्नस्ते विफलः सकलोऽभवत् ॥२५६॥ तं दृष्ट्वा वाणिजेनेव दत्तं शुल्कमिदं त्वया । इति शृण्वन्वचस्तस्य समीपं प्रापमाकुलः ॥२५७॥ कृष्णमालोक्य चामूर्च्छमपृच्छं चाप्तचेतनः । कथमेतदभूद्धा ! ते तदा द्वैपायने वनम् ॥२५८॥ अचीकथत्ततः कृष्णः प्रभुवाक्यादनन्तरम् । पौरैः समुज्झिते मद्ये षण्मासाः प्रययुः सुखम् ॥२५९॥ आयाते मासि वैशाखे कदम्बवनपालकः । सभायामायतिप्रेक्षी मामुपेत्य व्यजिज्ञपत् ॥२६०॥ तत्र त्यक्तं तदा देव ! द्रुमपुष्पाधिवासितम् । उपागतेन सुस्वादु मद्यं तत्पीतपूर्विणा ॥२६१।।
15
20
25
१. न एण:-मृगः । २. मां प्रतिद्वये । ३. "कथमेतदभूद्याते, तदा द्वैपायनं वनम्'' प्रतिद्वये ।