SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ [६६५ षोडशः सर्गः । नेमिनाथदीक्षोत्सवः ॥] ब्रह्मेन्द्रो दर्पणं पूर्णकलशं लान्तकेश्वरः । शुक्रेशः स्वस्तिकं रम्यं सहस्त्रार: शरासनम् ॥२९७॥ श्रीवत्सं प्राणताधीशो नन्द्यावर्तं तथाऽच्युतः । शस्त्राण्यधारयन्नाशु शेधेन्द्राश्चमरादयः ॥२९८॥ समुद्रविजयेनाथ रामकेशवपाण्डवैः । देवक्या शिवया कुन्त्या चानुयातोऽचलज्जिनः ॥२९९॥ परमङ्गलगीतानि शिवाद्याः साश्रुलोचनाः । विवाहवज्जगुर्नाहो ! मोहस्याज्ञा महीयसी ॥३००॥ गृहाभ्यर्णमुपेतस्य नेमिनाथस्य दर्शनात् । राजीमत्यास्तदा बाढं पुनर्जागरिताः शुचः ॥३०१॥ तद्भोजदुहितुर्दु:खं ज्ञानादपि जनादपि । जानन्नपि जिनो रागवैरिणा नाभ्यभूयत ॥३०२॥ ततो रैवतकोत्तंसे सहस्त्रामवणे प्रभुः । नरामरेन्द्रवाह्यायाः शिबिकाया अवातरत् ॥३०३॥ प्रतीक्ष्य भूषणश्रेणिं प्रभोस्तत्र विमुञ्चतः । अदादिन्द्रो मुकुन्दाय योजितोभयपाणये ॥३०४॥ अथ वर्षत्रिशत्यायुः पूर्वाह्ने त्वाष्ट्रगे विधौ । सितायां नभसः षष्ठ्यां कृतषष्ठः शिवात्मजः ॥३०५॥ स्वयमुत्पाटयामास मुष्टिभिः पञ्चभिः कचान् । प्रतीयेष हरिस्तांश्च दूष्यं चांसे प्रभोय॑धात् ॥३०६॥ युग्मम् । केशान्क्षीराम्बुधौ क्षिप्त्वा क्षिप्रं शक्रः समेत्य च । न्यषेधत्तुमुलंतस्थौ स्वामी सामायिके ततः ॥३०७।। मनःपर्ययसंज्ञं च ज्ञानं प्रादुरभूत्प्रभोः । सुखमप्राप्तपूर्वं च नारकाणामपि क्षणम् ॥३०८॥ अनुप्रावाजिषुर्नेमिं सहस्रं वसुधाधिपाः । नत्वा नेमिं ययुर्धाम शक्र-गोविन्द-पाण्डवाः ॥३०९॥ १. चित्रानक्षत्रगते चन्द्रे । २. श्रावणस्य । ३. जग्राह ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy