________________
[४५
प्रथमः सर्गः । कुन्ती सुतस्य त्यागः ॥]
प्रत्याशंप्रसरद्दीप्तिमण्डले मणिकुण्डले । शस्त्राणि च प्रियाण्यासंस्तस्याः प्रसृमरौजसः ॥५४८॥ मार्तण्डमण्डलभ्रान्तिजनकं निजतेजसा । अथ सा नवमासान्ते सूते स्म सुदिने सुतम् ॥५४९।। पुत्रजन्मेति सानन्दा प्रच्छन्नमिति शङ्किता । त्याज्योऽयमिति च म्लास्नुः सा दधौ भावसङ्करम् ॥५५०॥ शौण्डीयॊदार्यसाम्राज्यबीजं वीक्ष्याङ्गलक्षणम् । कुन्तीधात्र्यावदूयेतां तत्त्यागोपक्रमे तदा ॥५५१॥ असौ लोकविरुद्धेन वर्मना जात इत्यमुम् । उज्झितुं रत्नमञ्जूषा ताभ्यामानीयत क्षणात् ॥५५२॥ क्षिप्त्वा तत्र स्वयं धात्र्या मणिकुण्डलमण्डितः । रह: प्रवाहयाञ्चक्रे सोऽन्तर्गङ्गं सबाष्पया ॥५५३।। त्यक्ते कुन्ती सुते तस्मिन्नुवाह महतीं शुचम् । तादृशा पुत्ररत्नेन वियुक्तः को न खिद्यते ॥५५४॥ अथापृच्छि रहो जातु धात्री राज्या सुभद्रया । कथमन्यमिवाकारं धत्ते कुन्ती सुता मम ॥५५५॥ कथं चान्तःसशल्येव वहति म्लानमाननम् ? । अथ तं कथयामास धात्री वृत्तान्तमादितः ॥५५६।। राज्यप्याख्यत् क्षितीशाय तस्याः सोऽप्येवमादिशत् । वरान्तरेण पर्याप्तमधुना दुहितुः प्रिये ! ॥५५७॥ इत्यालोच्य निजः सूनुर्धरणोऽन्धकवृष्णिना । दत्त्वा शिक्षां पृथायुक्तः प्रहितो हस्तिनापुरे ॥५५८॥ अश्वैरुत्थापितं रेणुं करेणुमदवारिभिः । स्थापयन्नाप धरणः पुरं पाण्डुमहीपतेः ॥५५९॥ भागीरथीतनूजेन प्रत्युद्योतो यदूद्भवः । पुरीपरिसरे रम्ये निवासान्स्वैरमाददौ ॥५६०॥
१. म्लायमाना ।