SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ 10 ५७२] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ न्यस्तपूर्वी धनुर्विद्यामात्मनोऽप्यधिकां त्वयि । अद्येन्द्रसदसि द्रोणो गुरुर्लज्जिष्यते ध्रुवम् ॥६६५॥ भृशं पञ्चोत्तरे पौत्रशतेऽपि त्वयि वत्सलः ।। अद्य भीष्मस्त्रपामुच्चैर्मुमुक्षुरपि वक्ष्यति ॥६६६।। लोकेन समरालोकविलीनहृदयस्य ते । सारथ्यं प्रथयन् पार्थ ! हसिष्येऽहमपि स्फुटम् ॥६६७॥ त्वत्पदे हन्त कुन्ती चेत्कन्यां काञ्चिदसोष्यत । ततस्तस्याः पतिर्नूनमरक्षिष्यत् तपःसुतम् ॥६६८॥ इत्याद्यम्भोजनाभेन तर्जितो मुहुरर्जुनः । धावति स्मानुराधेयममर्ष इव मूर्तिमान् ॥६६९।। स धावन् वृषसेनेन राधेयतनुजन्मना । क्षणं मार्गद्रुमेणेव सिन्धुरः प्रत्यरुध्यत ॥६७०॥ अभिमन्युवधस्मृत्या तरङ्गितरयोऽर्जुनः ।। तूलशैलमिवाकृच्छ्रात्तं ममन्थ महाबलः ॥६७१॥ तदीयवधनिर्भिन्नचेतास्त्यक्त्वा तपःसुतम् । राधासूनुरधाविष्ट स्पष्टकोपोऽनु फाल्गुनम् ॥६७२॥ तस्मिन् विस्मापिताशेषविश्वे दो:स्तम्भजृम्भितैः । आगच्छति जवाच्छौरिरवोचत् सव्यसाचिनम् ॥६७३॥ पार्थ ! नन्वेति राधेयः श्वेताश्वः शल्यसारथिः । नागकक्षाध्वजः साक्षादिव वीरो रसः पुरः ॥६७४॥ आजन्मकार्मुकाभ्यासतारतम्यं द्वयोरपि । इदानीं युवयोर्जन्यदक्षयोर्लक्षयिष्यते ॥६७५॥ मा पुनः सिंहिकासूनुक्रान्तस्येव विवस्वतः । कर्णरुद्धस्य तेजस्ते समस्तमपि गात् क्वचित् ॥६७६॥ इत्युदीर्य मुकुन्देन वचसा सव्यसाचिनः । नोदिताश्वो रथः कर्णरथं प्रत्यचलज्जवात् ॥६७७|| 15 20 25 १. कक्षा-वस्त्रम् । २. युद्धदक्षयोः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy