SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ५४४] [पाण्डवचरित्रमहाकाव्यम् । युद्धवर्णनम् ॥ अथ सन्ध्या व्यतीतेऽह्नि कौसुम्भाम्बरधारिणी । रिम्सुस्तत्र जेतारं जयलक्ष्मीरिवागमत् ॥३००॥ अवहारं विधायाथ वरूथिन्यावुभे अपि । जग्मतुः शिबिरं स्वस्वममन्दितमदे मिथः ॥३०१॥ अथ धर्मजगोप्तारं निशि कौरव्यशासनात् । संसप्तकाख्यास्त्रगर्ता भूभुजोऽभ्येयुरर्जुनम् ॥३०२॥ व्याहरन्ति स्म ते स्मेरभुजाहंकारकोरकाः । त्वमेवं युध्यसे पार्थ ! किमु सामूहिकोऽन्यवत् ? ॥३०३।। न खल्वपरशौण्डीरडम्बरोड्डामरे रणे । तव त्रिजगदुल्लनि व्यज्यते भुजवैभवम् ॥३०४॥ तमःसर्वंकषोन्मेषप्रदीपशतसङ्कले । जृम्भते कौस्तुभस्यापि किमहो महिमा क्वचित् ? ॥३०५॥ तत्प्रभाते पृथग्भूय कुरुक्षेत्ररणक्षितेः । युध्यस्व क्षणमस्माभिरर्जुनः कोऽपि यद्यसि ॥३०६॥ अथाभाषिष्ट बीभत्सुनैतत्किञ्चिदसाम्प्रतम् । मा भूवन् वः पुनर्वाचो रम्भास्तम्भस्य सन्निभाः ॥३०७॥ मद्वाणाः सुभटप्राणानास्वाद्यातिपिपासिताः । कुरूनत्तुं क्षमिष्यन्ते पीत्वा वः शोणितासवम् ॥३०८॥ एकाक्येव तदेतस्मात्क्षेत्रादेष्याम्यहं बहिः । सर्वे सम्भूय यूयं तु द्रुतमागच्छत प्रगे ॥३०९॥ इत्यर्जुनवचःस्फूर्जत्प्रमोदभरमेदुराः ।। आगच्छन्निजमावासं ते संसप्तकभूभृतः ॥३१०॥ द्रोणप्रतिश्रुतज्येष्ठबन्धुबन्धनकातरः । धृष्टद्युम्नं च भीमं च नकुलादींश्च दोभृतः ॥३११।। तस्य गोपायने कामं नियुज्य स्फुरदूजितान् । __ जिष्णुः संसप्तकाञ्जेतुं द्वादशेऽथ दिने ययौ ॥३१२॥ युग्मम् । 15 20 25 १. त्रिगर्तो नाम देशः तस्य संबन्धिनः ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy