________________
5
10
15
20
25
३६ ]
[ पाण्डवचरित्रमहाकाव्यम् । कुन्ती जन्म ॥
समुद्रविजयः पूर्वमक्षोभ्यस्तदनन्तरम् । स्तिमितः सागरश्चैव हिमवानचलस्ततः ॥४२७॥ धरणः पूरणस्तस्मादभिचन्द्राभिधोऽपि च । वसुदेवश्च दाशार्हो दशाप्येते प्रकीर्तिताः ||४२८॥ युग्मम् । तेषामुपरि पुत्राणां सुभद्रा सुषुवे सुताम् । परमां मुदमध्यास्त यज्जन्मनि जगन्मनः ॥४२९॥ यज्जन्मलग्नमालोक्य ज्ञानिनोऽकथयन्निदम् । यद्भवित्री सवित्रीयं सम्राजामङ्गजन्मनाम् ॥४३०॥ जनानां प्रोषितं दुःखैः सुखैरुन्मुषितं पुनः । किं न जन्मोत्सवे तस्याः शुभोदर्कमभूद्भुवि ॥४३१॥ पुत्रजन्ममहेभ्योऽपि विशिष्टोऽन्धकवृष्णिना । तस्या जन्मोत्सवश्चक्रे प्रीतिरत्र प्रयोजिका ॥४३२॥ कल्याणपुषि पौषेऽह्नि दीनोद्धरणपूर्वकम् । प्रीत्या पितृभ्यामेतस्या नाम कुन्तीति निर्ममे ॥ ४३३॥ सा बभूव शिशुत्वेऽपि कामपृथुमनोरथा । पृथेति प्रथितामाख्यामपरामभजत्ततः ॥४३४॥ प्रापत्प्रसर्पत्कन्दर्पं सा क्रमान्नवयौवनम् । यत्र पित्रोर्वरस्यार्थे चिन्ता जागर्ति चेतसि ॥ ४३५॥ अस्याः स्वच्छन्दमुत्सङ्गखेलिन्यामन्यदा नृपः । ज्येष्ठं समुद्रविजयं व्याजहार तनूरुहम् ॥४३६॥ एतस्या मम वत्सायाः को नाम भविता वरः ? | इति मे वत्स ! महतीं चिन्तामुच्छेत्तुमर्हसि ॥४३७॥ सोऽप्यभाषिष्ट यद्येवं प्रेष्यतां कोऽपि पूरुषः । देव ! देशेष्वशेषेषु वरवीक्षाविचक्षणः ॥४३८ ॥ यथा स प्रतिभाप्रौढोऽभिरूपं रूपशालिनम् । स्वसुर्मे सदृशं शुद्धान्वयमन्वेषते वरम् ॥४३९॥ स्वयंवरे तु दोषोऽयं यदेकस्मिन्वरे वृते । ईर्ष्याया कलहायन्ते नितान्तमपरे नृपाः ॥ ४४०॥