________________
४८०]
[ पाण्डवचरित्रमहाकाव्यम् । युद्धसज्जता ॥ गुंडप्रक्षरपर्याणोपकार्यो कवचादयः । राजवेश्मनि निमातुमारभ्यन्ते स्म कारुभिः ॥३८८॥ भाराऽऽरोपकते कैश्चिद्दर्पा इव शरीरिणः । दम्यन्तेस्म ककुद्यन्तो रेणुगोणिभिरुल्वणाः ॥३८९॥ पण्यसङ्ग्राहिणः केऽपि केऽप्यन्नक्रयकारिणः । वणिक्पुत्रभृतः केऽपि संवहन्ते स्म नैगमाः ॥३९०॥ सौधोपरि सपल्यङ्कदत्तगुप्यद्गुरूत्कराः । सज्जन्ति स्म प्रयाणाय वारसारङ्गचक्षुषः ॥३९१॥ इति सर्वतः पुरनिवासिजनः कटकप्रयाणरभसाऽऽकुलितः । निजकर्म तत्तदचिरं रचयन्नभवद्भृशं प्रमदपल्लवितः ॥३९२॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये द्रुपदपुरोहितसंजयविष्णुदूत्यवर्णनो नामैकादशः सर्गः ॥११॥
10
१. गुड:-गजपीठास्तरणम् । २. उपकार्या-वस्त्रगृहम् , तंबु इति भाषायाम् । ३. प्यन: क्रयकारिणः इति लिखितप्रतित्रयपाठोऽपि साधुः तत्र "क्लीबेऽनः शकटोऽस्त्री स्यात्" इत्यमर कोशः । ४. वाराङ्गना ।