SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 10 ४६२] [पाण्डवचरित्रमहाकाव्यम् । विदुर-धृतराष्ट्रयोः-संवादः ॥ क्षोणिराक्षिप्यते केन मद्बाहुकुलिशोदरात् ? । मांसमाकृष्यते केन सिंहदंष्ट्राङ्कुरान्तरात् ? ॥१५५॥ क्वाहं भ्रूभङ्गसङ्गीतनर्तितानेकराजकः । मत्स्य-द्रुपद-गोपालमात्रगुप्ताः क्व च द्विषः ॥१५६।। रणारण्ये ज्वलत्युच्चैर्मत्प्रतापदवानले । भटित्रीभवितारस्ते वानेया इव जन्तवः ॥१५७॥ निन्दन्नेवं तु नः साक्षात् संजयोऽयं धनंजयः । छिद्यते तात दाक्षिण्यान्नास्य जिह्वा दुरात्मनः ॥१५८॥ गिरं तामन्वगुस्तस्य कर्णदुःशासनादयः ।। ध्वान्तध्वाङ्क्षविपक्षाद्याः प्रदोषस्यानुगामिनः ॥१५९॥ ययौ दुर्योधनः क्रोधादित्यवज्ञाय संजयम् । द्विषन्ति श्लेष्मवन्तो हि पथ्यायाप्युष्णपाथसे ॥१६०॥ गते तस्मिन्नपस्मारमेदुरे विदुरादिभिः । शङ्कातङ्काकुलैर्मेने नेदीयान्कुलविप्लवः ॥१६॥ अथाक्षमी कुरुक्षेत्रं प्रतिप्रस्थानहेतवे । महौजाः सज्जयामास गान्धारेयो वरूथिनीम् ॥१६२॥ हस्तिनापुरवास्तव्यः समस्तोऽपि जनस्तदा । समग्रकुरुसंहारशङ्काशोकमयोऽभवत् ॥१६३॥ अन्येधुरुद्यदानेन्दमाहूय विदुरं रहः । पप्रच्छ कुलकल्याणं धृतराष्ट्रो धराधवः ॥१६४॥ अवादीद् विदुरो राजन्प्रतिभामयचक्षुषा । दृष्टः प्रागेव विस्पष्टः सर्वोऽप्यर्थो भवत्यसौ ॥१६५॥ भवानेवाभवन्मूलमस्य वैरमहीरुहः । जातमेव दुरात्मानं नात्यजद् यः सुयोधनम् ॥१६६॥ मद्वाचः स्वादवोऽप्यासंस्तदानीं विरसास्त्वयि । स्रोतोवार इवावारपारे वैरस्यधामनि ॥१६७॥ 15 25 १. 'दातङ्क-मा०' प्रतित्रये ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy