________________
३९६] [पाण्डवचरित्रमहाकाव्यम् । जयद्रथवृत्तान्तः नारदस्यागमनं च ॥
अङ्गमाविश्य पार्थेन तदैकाकी जयद्रथः । उत्तरीयेण तस्यैव दस्युबन्धमबध्यत ॥१६८॥ भल्ली किरीटिनस्तूणात्तूर्णमादाय मारुतिः । मुण्डयित्वा व्यधात्क्रोधात्तस्य पञ्चशिखं शिरः ॥१६९॥ आदाय द्रौपदी बाहौ तमुवाच वृकोदरः ।। मातुरादेशतः कुन्त्या जीवन्मुक्तोऽसि याहि रे ॥१७०॥ पाञ्चाल्याः पुरतस्तेन लम्भितस्तां विडम्बनाम् । लज्जानम्रमुखोऽवादीद् भीमसेनं जयद्रथः ॥१७१॥ अरे ! शौण्डीरतागर्वपीनोदर ! वृकोदर !। निर्विवेक ! ममाप्येकमिदमाकर्ण्यतां वचः ॥१७२।। पञ्चानामपि युष्माकं नियतं मृत्युहेतवः । पञ्चाप्येते शिखाबन्धा ज्ञायन्तां धूमकेतवः ॥१७३॥ तस्याततायिनो वाक्यमपकण्यैव निर्भयौ । आगत्य मिलितौ ज्येष्ठबन्धोर्ट्समधनंजयौ ॥१७४॥ जयद्रथस्य वृत्तान्तः सैष तेषां परस्परम् । चिरं सहस्ततालस्य हास्यस्य स्यान्निबन्धनम् ॥१७५॥ अन्यदा नारदस्तेषामेकत्रैव निषेदुषाम् । स्वैरमाजग्मिवांस्तैश्च सप्रश्रयमुपास्यत ॥१७६॥ मुनीन्द्र ! कथयास्माकं सम्प्रत्यागम्यते कुतः ? । इति मारुतिना पृष्टः सोऽथ प्रमुदितोऽब्रवीत् ॥१७७॥ इति युष्मद्विसृष्टस्य दुष्टवृत्तेः कुतूहलात् । दुर्योधनस्य वृत्तान्तं विदित्वाऽहमिहाऽऽगमम् ॥१७८।। हसन्नाह पुनर्भीमः कथ्यतां मुनिपुङ्गव ! । इतस्तदा कथं यातः ? कथं चास्ते सुयोधनः ? ॥१७९॥ पुनर्मुनिरभाषिष्ट विषण्णो वः स बान्धवः । दत्त्वा दुःशासनस्कन्धे बाहुं प्रस्थितवानितः ॥१८०॥
15
25
१. मिमारयिषोः । २. अनाकर्ण्य ।