SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ [३९५ नवमः सर्गः । जयद्रथवृत्तान्तः ॥] सुखेन तस्थुषां तेषां गते भूयस्यनेहसि । प्रातः प्रसृमरं व्योम्नि रजो दृष्टिपथं ययौ ॥१५५॥ सायुधवातपादातमुदात्ताश्वीयहास्तिकम् । गच्छद्वैतवनान्तेन तैरनीकमदृश्यत ॥१५६।। परिणेतुं पुरो गच्छन्नभ्येत्य सपरिच्छदः । जयद्रथोऽनमत् कुन्ती दुःशल्यायाः पतिस्तदा ॥१५७॥ आनन्द्याशीर्भिरर्थ्याभिर्जामातेति सगौरवम् । कियन्तमपि कालं सा तं तत्रास्थापयन्मुदा ॥१५८॥ 'दिव्यया रसवत्याऽथ जिष्णुर्विद्योपहूतया । आतिथ्यं प्रथयाञ्चक्रे तस्य मातुर्निदेशतः ॥१५९।। जातु क्रीडाविहारेण पाण्डवेषु गतेषु सः । छलाज्जहार पाञ्चालीं जानकीमिव रावणः ॥१६०॥ द्रुह्यन्ति हि दुरात्मानः सुतरां सत्कृता अपि । दन्दशूको दशत्येव पीयूषमपि पायितः ॥१६१॥ पञ्चानामपि भर्तृणां प्रत्येकं नाम गृह्णती । हियमाणा च पाञ्चाली चक्रन्दोच्चैःस्वरं तदा ॥१६२।। उपश्रुत्य तमाक्रन्दं प्रेयस्या दुःश्रवं ततः । अभ्यर्णवर्तिनौ भीमार्जुनौ क्रोधादधावताम् ॥१६३॥ आदिशत् तौ तदा कुन्ती वत्सावेतस्य जीवितम् । रक्षतं यत्नतो मा स्म दुःशल्या विधवा भवेत् ॥१६४॥ सांयुगीनभुजौ वीक्ष्य तावायान्तौ जयद्रथः । संवर्मितचमू रौद्रो रणायाभिमुखोऽभवत् ॥१६५॥ भीमसेनो गदास्तम्भं दम्भोलिमिव दोलयन् । दन्तिनः पातयामास सर्वतः पर्वतानिव ॥१६६॥ वृकोदरो दरोद्रेकात्कांदिशीके द्विषद्बले । शेषं वटमिवाराम दग्धेऽद्राक्षीञ्जयद्रथम् ॥१६७॥ १. काले । २. पदातीनां समूह: पादातम् । ३. वज्रम् । ४. भयाधिक्यात् ।
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy