________________
[३५५
अष्टमः सर्गः । अर्जुन-किरातयोः वृत्तान्तः ॥]
इति विज्ञाप्य सत्कृत्य सर्वा विद्याधिदेवताः । उपकारोत्सुकाः कामं विससर्ज धनंजयः ॥२०७॥ युग्मम् । गतासु तासु पार्थोऽपि शैललक्ष्मीदिदृक्षया । नन्दनोद्यानसध्रीचि विजहार वने वने ॥२०८।। बाणभिन्नवपुः कश्चिद्यमसैरिभसन्निभः । निःशूकः शूकरस्तेन दृष्टः सम्मुखमापतन् ॥२०९॥ क्रुधाऽसौ ध्रुवमभ्येति नृशंसो मज्जिघांसया । एवं विमृश्य सोऽधिज्यं धनुष्मान् धनुरादधे ॥२१०॥ पार्थेन पोत्रिणः प्राणमार्गणोऽक्षेपि मार्गणः । दत्त्वा प्राणांस्तिरश्चापि तेन सोऽथ कृताथितः ॥२११॥ आगतः शूकराभ्यर्णे बाणग्रहणहेतवे । आयान्तं रौद्रमद्राक्षीत् किरातं कञ्चिदर्जुनः ॥२१२॥ सगुणं धारयन्धन्व यमभ्रूभङ्गभङ्गरम् । शरांश्च पञ्च-षान्पाणौ सोऽप्युपक्रोडमाययौ ॥२१३।। पार्थोऽथ पश्यतस्तस्य स्वर्णपुङ्खमनोरमम् । आददानो निजं बाणं बभाषे तेन सौष्ठवात् ॥२१४॥ सौम्य ! वीक्षे तवाचारमाकारव्यभिचारिणम् । क्वान्यथा पुण्यमूर्तिस्त्वं ? क्व च स्तैन्यममूदृशाम् ? ॥२१५॥ वरं तृणमिव प्राणांस्त्यजन्त्युज्ज्वलबुद्धयः । न पुनर्जातु कर्मेगाऽऽद्रियन्ते मलीमसम् ॥२१६॥ सदाचारसमीचीना भिक्षा माधुकरी वरम् । अतिचार्योऽप्यनाचारदूताहूता न तु श्रियः ॥२१७॥ तन्मामकीनमारण्यपशुशोणितपायिनम् । विषदिग्धशिखं नैनं विशिखं हर्तुमर्हसि ॥२१८॥ मयाऽसौ कुरुचन्द्रस्य तव द्रोहसमीहया । वराहराहुरागच्छन् बुधेनेव निवारितः ॥२१९॥
१. यमराजमहिषतुल्यः । २. शूकरस्य । ३. मार्गेणोत्क्षेपि० प्रतित्रयपाठो न सम्यगाभाति । ४. अतिसुन्दराः ।