________________
अष्टमः सर्गः । प्रियंवदस्य कथनम् ॥]
अन्योन्यं कलहायन्ते न शाश्वतिकवैरिणः । दधते रससौन्दर्यमन्यद्वन्यफलान्यपि ॥१२९॥ अथ पृष्ठो जनोऽस्माभिः क्व ते सम्प्रति पाण्डवाः ? | तेनाप्याख्यायि ते भद्रा ययुद्वैतवनेऽधुना ॥ १३० ॥ अथागमाम तैश्चिह्वैर्यत्रे ते सन्ति पाण्डवाः । पुलिन्दवृन्दमध्यस्थांस्तांश्चापश्याम निश्चलाः (लान् ) ॥१३१॥ सहकारतरोर्मूले वन्यमासनमुत्तमम् । प्रातस्तदा विमुक्ताधिव्याधिस्तस्थौ युधिष्ठिरः ॥ १३२॥ न केवलं विनीतास्तमुपासाञ्चक्रिरेऽनुजाः । दूरं मुक्तान्यकर्तव्या आरण्याः पशवोऽपि च ॥ १३३॥ पाण्डवेयसभाबन्धोरुटजद्वारवर्तिनः ।
परावर्तत न च्छाया तस्य माकन्दभूरुहः ॥१३४॥ तेषामद्भुतलक्षाणि स्वयं साक्षात्कृतान्यपि । अपि जिह्वासहस्रेण को वर्णयितुमीश्वरः ? ॥ १३५॥
श्रुत्वेति पाण्डवोदन्तं तदा जज्ञे सुयोधनः । मषीभिः स्नपितः किं नु नीलिभिः किं नु रञ्जितः ? ॥१३६॥ स विषण्णतदास्थानं विससर्ज चरैः सह । पुंसामुदित्वरे दुःखे न किञ्चिदपि रोचते ॥१३७॥ ततस्त्वमपि चारोक्तैस्तत्र तैस्तैः प्रियंवदः ! । लक्षणैर्लक्षये र्मङ्क्षु पाण्डवानां निवेशनम् ॥१३८॥ आदिश्य विदुरेणैवं प्रहितोऽहं हिताय वः । एकचक्रां पुरीं पश्यन्क्रमेणात्र समागमम् ॥१३९॥ नकुलं दन्दशूकेन हरिणं हरिणारिणा । सह क्रीडन्तमालोक्य विज्ञासिषमिहास्मि वः ॥१४०॥
[ ३४९
इत्युक्तवन्तमत्यन्तप्रीतस्तं पवनात्मजः । पप्रच्छ वर्तते राष्ट्रे धार्तराष्ट्रः कथं कथम् ? ॥१४९॥
१. अगच्छाम । २. स्तत्र ते यत्र पाण्डवाः इति प्रतित्रये० । ३. अस्मि इत्यव्ययमहमर्थे ।
5
10
15
20
25