SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ ३३६] 10 [पाण्डवचरित्रमहाकाव्यम् । महाबलस्य वृत्तान्तः ॥ क्षुधातः कल्यवर्तं त्वां विधाय विधिनाऽधुना । सर्वासामपि दास्यामि त्वद्वाचामुत्तरं ततः ॥६७९॥ इत्युदीर्य स्वधैर्येण प्रतिष्ठासुभृशं प्रभुः । पूर्वकायेन नितरामुत्पपात पपात च ॥६८०॥ आक्रान्तस्यापि तेनोच्चैः स्वामिनश्चेष्टया तया । रक्षोलोकस्य शोकेऽपि हास्यमास्ये समुद्ययौ ॥६८१॥ सोऽभ्यधान्नः प्रभुं भूयस्तदरे ! स्मर दैवतम् । महामांसाशिनां क्वापि नहि कल्याणसम्पदः ॥६८२॥ इति व्याहृत्य तेनाथ नाथोऽस्माकमनाथवत् । मूर्धानं मुष्टिना भित्त्वा प्राप्यतैकोऽपि पञ्चताम् ॥६८३॥ विद्याविदितवृत्तान्तः सुमायश्च तदैव सः । विहङ्गराजवेगेन व्यावृत्त्येह समाययौ ॥६८४॥ श्रुत्वेति विक्रमस्फारः कुमारोऽसौ महाबलः । निहन्तुं तातहन्तारं स्वीचक्रे सांयुगीनंताम् ॥६८५॥ शक्तेऽस्मिन्नोचितं युद्धं तद्भक्त्याऽभ्यर्च्य पृच्छ्यताम् । कुलविद्येति सम्बोध्य रुद्धः संवर्मयन्मया ॥६८६॥ एकतानेन साऽनेन देवी सम्यगुपासिता । यदादिदेश तदसौ स्वयमावेदयिष्यति ॥६८७।। महाबलस्ततोऽवोचन्मदुपास्तिवशंवदा । देवी मामादिशद्वत्स ! रुषं त्यज शमं भज ॥६८८॥ गत्वा सान्त्वय सद्भावतत्परः पुरुषानमून् । एते हि निहतानीतिप्रपञ्चाः पञ्च पाण्डवाः ॥६८९॥ मया पुराऽपि ते तातः समादिष्टो भृशं यथा । प्रतीपः पाण्डवेयानां मा स्म भूर्वत्स ! जातुचित् ॥६९०॥ १. प्रातर्भोजनं । २. गरुडवेगेन । ३. युद्धसज्जताम् । ४. निहिता प्रतित्रयपाठो न साधुः । 15 20
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy