________________
[३०९
सप्तमः सर्गः । ग्रीष्मातपेन कुन्त्याः मूर्छा ॥]
क्षणादेकान्तमासाद्य भीमं रोमाञ्चशालिनी । स्तनोपपीडमालिङ्गदानन्दाद् द्रुपदात्मजा ॥३२६॥ कंदर्पण हिडम्बायास्तदा बन्धुवियोगजः । शोकः शोकापनोदेन गुरुणा विरलीकृतः ॥३२७॥ शुश्रूषाबहुमानाभ्यां निबिडाभ्यां हिडम्बया । कुन्तीद्रुपदनन्दिन्योर्मन:परवशीकृतम् ॥३२८॥ अथो निशीथिनीशेषे पन्थानं ते प्रपेदिरे । प्रमाद्येत्कः सविद्यो हि महीयसि विरोधिनि ? ॥३२९॥ आश्वासयन्कनीयांसौ तेषां पृष्ठंगमोऽर्जुनः । निजाग्रजन्मनो दत्तबाहुर्भीमः पुरोगमः ॥३३०॥ पृष्ठे वहन्ती कुन्ती च कृष्णां च विनयाञ्चिता । अम्बरेण हिडम्बा च तेषां मध्यस्थिताऽचलत् ॥३३१॥ युग्मम् । अन्यदा तु महाटव्यामत्युत्कटपिपासया । भीष्मग्रीष्मतपश्रान्ता कुन्ती मूर्छामुपाययौ ॥३३२॥ बीभत्सुरेकतो वेगादन्यतस्तु वृकोदरः । प्रत्याशमतिसम्भ्रान्तौ तोयहेतोरधावताम् ॥३३३॥ मातरं मूच्छितां पश्यन्मत्वेवाम्भोऽतिदुर्लभम् । निजाभ्यामेव नेत्राभ्यामानिन्येऽम्बु युधिष्ठिरः ॥३३४॥ अचिन्तयच्च रे दैव ! सदैव प्रत्यनीकताम् । सर्वंकषां किमस्मासु निर्वाहयसि केवलम् ? ॥३३५।। दृशा पीयूषवर्षिण्या सिञ्चन्ती या प्रतिक्षणम् । हन्ति नः प्रत्यहं तापं साऽपि प्रापदिमां दशाम् ॥३३६॥ प्रियापरिभवो राज्यभ्रंशः पथपरिश्रमः । नैते तथा व्यथन्ते मां यथा मातुरियं दशा ॥३३७।। इति चिन्तातुरे राज्ञि क्वाप्यप्राप्य पयस्तदा । आजग्मतुर्निरानन्दौ वृकोदरकिरीटिनौ ॥३३८॥ एतावपि महाबाहू विह्वलावुपरि स्थितौ । कदुष्णैर्नयनाम्भोभिर्जननीं पर्यषिञ्चताम् ॥३३९॥