________________
[३०१
10
सप्तमः सर्गः । पाण्डवानां वनवासः ॥]
उभावपि कनीयांसौ पश्चाद्दूरान्तरस्थितौ । मार्गखेदोच्छलच्छ्वासौ मन्दं मन्दमुपेयतुः ॥२२२॥ व्यवस्थाप्य त्रिकस्थाने तावुभावभितस्तदा । निन्ये भीमो भुजालम्बाद् धर्मपुत्रार्जुनावपि ॥२२३॥ निशीथमारुतः शीतः कुमुदामोदमेदुरः । आचचाम श्रमं तस्य दयालुरिव दूरतः ॥२२४॥ न निद्रोपद्रवस्तस्य वैधुर्यं नान्धकारजम् । ललो पथपाथोधि पूर्ववत्पवनात्मजः ॥२२५॥ विलोक्य क्लान्तिमायातौ धर्मपुत्रार्जुनावपि । महेभ इव भीमस्तान्सर्वान्पृष्ठेऽध्यरोपयत् ॥२२६॥ महाध्वनि निमग्नानामगाधे जलधाविव । यानपात्रायितं तेन स्वबन्धूनां महात्मनाम् ॥२२७|| आससाद सदारम्भसम्भृतश्रेयसो भृशम् । भीमस्याध्वतिरोधानपापेनेव क्षपा क्षयम् ॥२२८॥ कुन्देन्दुसितकौन्तेयकीर्तिवित्रासितैरिव । तमोभिर्विरलीभूतं प्रभूतैरपि सर्वतः ॥२२९॥ वृकोदरमुखाम्भोजविलोकनकुतूहली । कर्मसाक्षी किलारोहदुदयाचलचूलिकाम् ॥२३०॥ स्वबन्धुभक्तमीक्षध्वं दूरादेत्य वृकोदरम् । इति स्वां जातिमाह्वातुमिवाकूजन् विहङ्गमाः ॥२३१॥ शङ्के पाण्डुकुटुम्बस्य करालम्बनदित्सया । करान्व्यापारयामास वासराणामधीश्वरः ॥२३२॥ सुखदुःखे समं तेषामारोहति रवौ नभः । मार्गालोकाच्च तापाच्च शनैः प्रादुर्बभूवतुः ॥२३३॥ ते ललाटंतपे भानौ खिन्नाङ्गाः पाण्डुसूनवः । वनोद्देशैकदेशस्था रह: क्वापि विशश्रमुः ॥२३४॥
15
20
25
१. पृष्ठे । २. सूर्यः ।