SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १४] [पाण्डवचरित्रमहाकाव्यम् । गङ्गागाङ्गेययोः संवादः ॥ प्राणसत्रं स्वपुत्रस्य सर्वसत्त्रशिरोमणिम् । आर्यपुत्र ! परित्रातुं सर्वथा तत्त्वमर्हसि ॥१४॥ पत्नीमुवाच रोमाञ्चमतर्नु शान्तनुर्वहन् । सर्वाऽप्यतः परं त्यक्ता त्वगिरा मृगया मया ॥१४२।। तदेहि सह पुत्रेण सच्चरित्रेण सम्प्रति । उदग्रा जाग्रतु व्यग्रं पुनर्मे भाग्यसम्पदः ॥१४३॥ साऽभ्यधादधुना लीनं मनो मे धर्मकर्मणि । व्यथन्ते तद्दिनान्यन्तः प्राच्यान्यप्य फलानि माम् ॥१४४॥ तन्मेऽधुना जिनस्यैव वासना पर्युपासने । पुत्रं त्वादाय राजेन्द्र ! व्रज शाधि वसुन्धराम् ॥१४५॥ इत्युदीर्य प्रजानाथं सा तनूजमवोचत । वत्स ! गच्छ पितुः स्वस्य समर्थय मनोरथान् ॥१४६॥ ईदृक्कस्यास्ति जनकः ? कस्यास्ति त्वादृशः सुतः ? । तदस्तु युवयोर्योगो बुधचन्द्रमसोरिव ॥१४७।। ततो जगाद गाङ्गेयस्त्यक्तुं त्वामम्ब ! नोत्सहे । त्वं मे पिता च माता च दृष्टपूर्व्यस्मि नापरम् ॥१४८॥ तवोपचर्याशून्यं मे मा स्म भूदेकमप्यहः । इत्युक्त्वा व्यक्तमुक्ताश्रुः सोऽपतन्मातृपादयोः ॥१४९॥ अथोत्थाप्य प्रमृज्याश्रु जनन्या सोऽन्वनीयत ।। बलिः क्रियेऽहं वत्सस्य कातर्यमिदमुत्सृज ॥१५०॥ पुत्र ! त्वमसहायस्य सहायः स्वपितुर्भव । सूनुर्जनयितुश्चिन्ताभारहारी हि वार्धके ॥१५१॥ वात्सल्यं वत्सलस्तातस्तथा ते प्रथयिष्यति । यथा न त्वमिहस्थाया मम वत्स ! स्मरिष्यसि ॥१५२॥ इत्यादियुक्तिभिर्व्यक्तं बोधितो बुद्धिमानपि । अम्बायाः स विलम्बेन वचनं प्रत्यपद्यत ॥१५३॥ १. 'रोमाञ्चकवचं' इति प्रत्य. । २. ते वत्स ! इति प्रत्यन्तर त्रय पाठः । 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy