________________
२६२] __ [पाण्डवचरित्रमहाकाव्यम् । दमयन्त्याः पितृसमीपे गमनम् ॥
साक्षीकृत्य महीनाथोऽप्यर्हद्धर्मस्य तत्फलम् । प्रत्यपद्यत तं हर्षभरव्याप्तान्तराशयः ॥७४६॥ अथावसरमासाद्य हरिमित्रोऽभ्यधान्नृपम् । स्थिताऽत्र सुचिरं भैमी यात्विदानीं पितुर्गृहे ॥७४७।। पुष्पदन्ती च सा माता पिता च स विदर्भराट् । प्रवासश्रवणादस्यास्तिष्ठतो देव ! दुःखितौ ॥७४८।। ततश्चन्द्रयशोदेव्या मतमादाय तत्क्षणात् ।
ओमित्युक्त्वा ततो भैमी प्राहिणोत्सह सेनया ॥७४९॥ तामायान्ती सुतां श्रुत्वा भीमभूपतिरभ्यगात् । निरीक्ष्य पितरं साऽपि दूरतो यानमत्यजत् ॥७५०॥ धावित्वा रभसाद् भैमी पादयोरपतत् पितुः । तयोः प्रीत्यश्रुवर्षेण पङ्किला तत्र भूरभूत् ॥७५१॥ मातरं च सहाऽऽयातां वीक्ष्याश्लिष्यत्प्रमोदिनीम् । तस्याः कण्ठे लगित्वा च तारतारं रुरोद सा ॥७५२॥ सुतां भूपः पुरं क्लृप्तमहोत्सवमवीविशत् । मुदा च गुरुदेवार्चा सप्तरात्रमकारयत् ॥७५३॥ पृष्टा भूमीभुजा कुब्ज ! जातुचिन्मम पश्यतः । तामेतां भीमभूः सर्वां निजामकथयत्कथाम् ॥५४॥ ऊचे च पृथिवीनाथस्तां स वात्सल्यया गिरा । वत्से ! विदधती धर्मं वसास्मत्सदने सुखम् ॥७५५।। करिष्यते तथा कश्चिदतः परमुपक्रमः । यथा कुतश्चिदभ्येत्य पतिस्तव मिलिष्यति ॥७५६।। ददौ च हरिमित्राय ग्रामपञ्चशतीं नृपः ।। तुष्टोऽभ्यधाच्च राज्यार्धं तुभ्यं दास्ये नलागमे ॥७५७॥ अन्यदा दधिपर्णस्य भूपतेः स्नेहवर्मना । दूतस्तत्र ययौ धीमान् सुंसुमारपुरादितः ॥७५८॥ स जातु वार्ताप्रस्तावेऽकथयद् भीमभूभुजः । यथाऽस्मत्स्वामिनः पार्श्वे प्राप्तोऽस्ति नलसूपकृत् ॥७५९।।
15
25