________________
षष्ठः सर्गः । पिङ्गलस्य दीक्षा चन्द्रयशाशोकश्च ॥ ] तदस्मै व्रतदानेन भगवन्तौ प्रसीदतम् । मुनी अप्यूचतुर्दीक्षायोग्य एवैष पिङ्गलः ॥ ७०६ || प्रार्थितावथ तेनापि चैत्ये नीत्वा तदैव तम् । प्रव्रज्य तौ मुनी सार्धमेतेनान्यत्र जग्मतुः ॥७०७৷৷ हरिमित्रोऽन्यदा विप्रः कुण्डिनात् पूर्वसंस्तुतः । एत्य भूमिपतिं दृष्ट्वा ययौ चन्द्रयशोऽन्तिके ॥७०८॥ बद्धाञ्जलिं निविष्टं तमग्रे भूपप्रियाऽभ्यधात् । विदर्भभूभुजः क्षेमं पुष्पदन्त्याश्च मे स्वसुः ? ||७०९॥ दम्पत्योरनयोर्देवि ! क्षेमलक्ष्मीः सनातनी ।
नलस्य दमयन्त्याश्च सा तु चिन्ताऽस्ति साम्प्रतम् ॥७१०॥ सम्भ्रान्तया किमात्थेति तयोक्तः सोऽब्रवीत्पुनः । जातु शुश्राव नः स्वामी लोकाख्यातामिमां कथाम् ॥७११॥ यथा नलो महीमक्षैः कूबरेण सबन्धुना । हारितो निरगाद् भैमीं पुरस्कृत्य पुरान्निजात् ॥७१२॥
तारण्ये परित्यज्य सोऽगमत्तदनन्तरम् । वार्ताऽपि न तयोर्विश्वे काऽपि कुत्रापि वर्तते ॥७१३|| तदुपश्रुत्य नः स्वामी स्वामिनी पुष्पदन्त्यपि । वज्राहताविवोन्मीलद्दुःखभारौ मुमूर्च्छतुः ॥७१४|| मूर्च्छान्ते विलपन्तौ च समन्वेष्टुमितस्ततः । जामातरं तनूजां च प्राहैष्टां तौ तदैव माम् ॥७१५|| प्रत्यरण्यं प्रतिग्रामं प्रतिपत्तनमप्यहम् । भ्राम्यन् क्रमान्महीमेतामिहेदानीमुपागमम् ॥७१६॥ न तयोः पुनरश्रौषं वार्तामात्रमपि क्वचित् । तत्क्लेशफलमेवैतद्बभूव भ्रमणं मम ॥७१७॥ श्रुत्वेति गिरमाक्रन्दमुच्चैश्चन्द्रयशा व्यधात् । नलस्य कुर्वती निन्दां तां तां भैम्याः स्तुतिं पुनः ॥७१८|| क्रन्दद्भिरनु तां लोकैः शोकाद्वैतं तदाऽखिले ।
जातं राजकुले नेतुरनुगा ह्यनुजीविनः ॥ ७१९ ॥
[२५९
5
10
15
20
25