SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 10 २४८] [पाण्डवचरित्रमहाकाव्यम् । दमयत्याः अभिग्रहः ॥ ब्रूहि तत्किमिदानीं ते मनोऽभीष्टं करोम्यहम् । निशम्येति वचस्तस्य कुण्डिनेशसुताऽवदत् ॥५६०॥ यदि तुष्टोऽसि मे सत्यं राक्षस ! व्यन्तरेश्वर ! । तदाऽऽचक्ष्व कदा भावी पत्या मम समागमः ? ॥५६१॥ विलोक्यावधिना सद्यस्तामवोचन्निशाचरः । अतिक्रम्य परित्यागदिनाद् द्वादशहायनीम् ॥५६२॥ पितृधाम्नि स्थितायास्ते भविता पतिसङ्गमः । तदादिशसि चेत् तत् त्वां तत्र वेगान्नयाम्यहम् ॥५६३॥ युग्मम् । अथोचे भीमभूर्भर्तृसमागमनिवेदनात् । किं नाम नोपचक्रे मे त्वया दाक्षिण्यसिन्धुना ? ॥५६४।। किं त्वन्यपुरुषैः साकं क्वचिन्नैव व्रजाम्यहम् । तद् गच्छ स्वस्ति ते भूयाद्धर्मगृह्यो भवेश्चिरम् ॥५६५।। ततः प्रेङ्क्षत्प्रभाजालमालोलमणिकुण्डलम् । दर्शयित्वा निजं रूपं तस्मै रात्रिचरोऽगमत् ॥५६६।। अथ द्वादशवर्षान्ते विज्ञाय पतिसङ्गमम् । . भैमी सतीव्रतोत्तंसानग्रहीदित्यभिग्रहान् ॥५६७।। रक्तवासांसि ताम्बूलं कुसुमाभरणानि च । विकृतीश्च ग्रहीष्येऽहमग्नि प्रियदर्शनात् ॥५६८॥ सा चलन्ती पुरो नानाफलितद्रुमशालिनीम् । चेत:स्वास्थ्यकरी प्राप कंदरां कस्यचिद् गिरेः ॥५६९।। तत्राम्भोदागमं नेतुमवस्थानं चकार सा । प्रतिमां मृन्मयीं शान्तेस्तत्कोणे च न्यवीविशत् ॥५७०।। स्वयं गलितपुष्पैस्तामर्चयन्त्यनुवासरम् । धर्मध्यानामृताम्भोधिस्नानसानन्दमानसा ॥५७१॥ चतुर्थादि तपः शश्वद्वितन्वाना निरत्ययम् । कुर्वाणा पारणां वृक्षफलैः स्वरसपातिभिः ॥५७२।। 15 25
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy