SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः । ग्रन्थस्य मंगलाचरणम् ॥] श्रीमलधारिदेवप्रभसूरिविरचितं पाण्डवचरित्रम् । प्रथमः सर्गः ॥ श्रियं विश्वत्रयत्राणनिष्णः पुष्णातु वः प्रभुः । शङ्करः पुण्डरीकाक्षः श्रीमन्नाभिसमुद्भवः ॥१॥ पान्तु श्री शान्तिनाथस्य पदप्रेङ्खन्नखत्विषः । दुरन्तदुरितारण्य-प्रज्वलज्ज्वलनश्रियः ॥२॥ पुण्यप्रसूतिः श्रीनेमेः पातु वो देशना गवी । घासः स्मरादयो यस्याः क्षीरं मोक्षसुखं पुनः ||३|| पार्श्वनाथः स वः पायाद्यदङ्गद्युतिसागरे । प्रवालकन्दलायन्ते फणिरत्नप्रभाङ्कराः ||४|| जयन्ति वर्धमानस्यृ जितदम्भोलिवैभवाः मोहान्धतमसध्वंसे हेलयः सत्त्वकेलयः ॥५॥ चरित्रं पाण्डुपुत्राणां पवित्रमभिदध्महे । श्रुतं हितोपदेशाय यज्जने पर्यवस्यति ॥६॥ क्व वृत्तं पाण्डवेयानां क्व चाहं जडिमैकभूः । मेरुमारोढुकामोऽस्मि मूढात्मा पङ्गुरप्यतः ॥७॥ बहुस्तद्बहुमानस्तु मामत्यन्तमुदस्यति । समीरणेन किं रेणुरुद्धृतः खे न खेलति ? ॥८॥ आसीन्निःसीममाहात्म्यपदमाद्यो महीभृताम् । प्रथमस्तीर्थनाथानां नाभिभूरिह भारते ॥ ९ ॥ [ ३ शतमासन्सुतास्तस्य तेष्वेकः कुरुसंज्ञकः । ख्यातं यस्याख्यया क्षेत्रं कुरुक्षेत्रमिति क्षितौ ॥१०॥ १. शम् करोति । २. तृणम, भक्ष्यम् । ३. कामादिकाः । ४. परवाळ इति भाषायाम् । ५. सूर्याः । 5 10 15 20
SR No.023200
Book TitlePandav Charitra Mahakavyam
Original Sutra AuthorN/A
AuthorDevprabhsuri, Shreyansprabhsuri
PublisherSmrutimandir Prakashanam
Publication Year2012
Total Pages862
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy