________________
चतुर्थः सर्गः । धृष्टद्युम्नस्य उद्घोषणा ॥ ] कश्चित्कुपितपुष्पेषुशरपातभयादिव । प्रावारवाससा चक्रे सर्वाङ्गमवगुण्ठनम् ॥१९३॥ कश्चिन्नागरखण्डानि खण्डयन्दशनाङ्कुरैः । प्रकुप्यतः स्मरस्याग्रे क्षिपतीव मुखेऽङ्गुलिः ॥१९४॥ बहिर्विभाव्यमानाऽपि योगिनीवेयमीक्ष्यते । कथमन्तरितीवान्यो हृदयं मुहुरैक्षत ॥ १९५॥ परिभ्रष्टमिव क्वापि निजमालोकयन् मनः । लिलेख कश्चिदानम्रः पादाङ्गुष्ठेन पीठिकाम् ॥१९६॥ इत्याविर्भूतभावेषु तेषु सर्वेषु राजसु ।
चिक्षेप क्षोणिभृत्कन्या स्वभावसरलां दृशम् ॥१९७॥ पाण्डोः पुत्रांस्तु पञ्चापि विभाव्य मधुराकृतीन् । धृतिं बबन्ध तच्चक्षुः पणमुद्वीक्ष्य चाधृतिम् ॥१९८॥ विमानादथ रम्भेव देवभूमीभृतस्तले । हेममूर्तेरधो राधास्तम्भस्येयमवातरत् ॥१९९॥ तस्मिन्नूर्ध्वमधस्तिर्यक्संक्रान्तप्रतियातना ।
पाञ्चाली काममेकापि बभार बहुरूपताम् ॥२००॥ ऊर्ध्वकृत्य भुजं लोकतुमुलं प्रतिषिध्य च । धृष्टद्युम्नस्ततो वाचमुवाच द्रुपदात्मजः ॥२०१॥ दोर्दण्डचण्डिमाक्रान्तजगतो जगतीभृतः । गिरमेतामुभाकणि सर्वेऽप्याकर्णयन्तु मे ॥ २०२ ॥ साक्षीकृत्य वियत्यर्कसिद्धगन्धर्वखेचरान् । क्षितौ च ललनाबालगोपालप्रमुखं जनम् ॥२०३॥ इदमस्मत्कुलोत्तंसं देवताशतसेवितम् । चापमारोप्य यः कोऽपि राधावेधं विधास्यति ॥ २०४ ॥
भुवनाद्भुतसौभाग्यभागिनी भगिनी मम ।
शौण्डीर्यवैतनं तस्मै कृष्णेयं कल्पयिष्यते ॥ २०५ ॥ त्रिभिर्विशेषकम् ।
१. मेरुपर्वतस्य । २. प्रतिमा । ३. वेतने इति वा पाठः ।
[ १४१
5
10
15
20
25