________________
[१०१
तृतीयः सर्गः । दुर्योधनस्य वैरम् ॥]
मर्मप्रहारनिर्मुक्तमनलंकृतरम्ययोः । नियुद्धमेतयोरासीदशिक्षितमनोहरम् ॥१८१॥ तयोर्द्वयोरपि ख्यातबलिभ्योऽपि बलिष्ठयोः । प्रावर्ततौत्तराधर्यपरावृत्तिः क्षणे क्षणे ॥१८२॥ दिनेन्दुदिननाथाभैस्तयोर्जयपराजयौ । दुःशासनार्जुनादीनामकथ्येतां मुखैस्तदा ॥१८३॥ नियुध्यमानो वज्राङ्गः क्रीडयाऽपि वृकोदरः । क्रमाद्दुर्योधनं दूरान्निन्ये निःसहदेहताम् ॥१८४॥ चिराददभ्रं बिभ्राणः पराजयपराभवम् । श्यामास्यः प्रययौ बन्धुमध्याहुर्योधनः शनैः ॥१८५।। तथैवावस्थितं रङ्गे भीममेत्य युधिष्ठिरः । रजोऽवगुण्डितं प्रेम्णा प्रममा स्ववाससा ॥१८६।। बन्धोर्नियुद्धखिन्नस्य वपुर्विपुलमांसलम् । स्नेहात्संवाहयामास मृदुपाणिर्धनंजयः ॥१८७॥ नकुलः सहदेवश्च प्रमोदादभितः स्थितौ । स्वाञ्चलव्यजनैर्भीमं वीजयाञ्चक्रतुश्चिरम् ॥१८८॥ दुर्योधनो रह:स्थाने स्थित्वा चक्रे जडोचितान् । निजाशयप्रमाणेन विकल्पानब्जनालवत् ॥१८९।। अर्धराज्यहरो योऽपि सोऽपि वध्यो महौजसाम् । किं पुन—महे तस्य ? सर्वराज्यहरोऽपि यः ॥१९०॥ ततः सर्वप्रकारेण मम वध्यो युधिष्ठिरः । उदीयमानोऽप्युच्छेद्यो विरोधी व्याधिवबुधैः ॥१९१॥ किं त्वसाध्यः परीतोऽयं भीमेन विजयेन च । भूपाल इव सम्पन्नो विक्रमेण नियेन च ॥१९२॥ ततो भीमार्जुनावेव पुरस्ताद्वधमर्हतः । द्वौ दुर्वारमहावीर्यावजातारे(जाविव ॥१९३।।
15
20.
25
१. दिनेश-दिनचन्द्राभैः प्रति० । २. प्रभूतम् । ३. 'हि' इति प्रत्यन्तरे । ४. युधिष्ठिरस्य ।