________________
काव्यशास्त्रविनोदेन ,
कालो गच्छति धीमताम् । व्यसनेन च मूर्खारणां,
निद्रया कलहेन वा ॥ १ ॥
काव्यप्रकाशकारेण प्रोक्तं यत्काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यःपरिनिर्वृत्तये कान्तासम्मिततयोपदेशयुजे ॥१॥
• कलिकालसर्वज्ञश्रीहेमचन्द्रसूरीश्वरैरपि स्वविरचितकाव्यानुशासने प्रोक्त यत्
"काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च ॥१॥३॥ इति ।
काव्यस्योपादेयत्वं श्रीअग्निपुराणेऽपि उक्त यथानरत्वं दुर्लभं लोके, विद्या तत्र सुदुर्लभाः । कवित्वं दुर्लभं तत्र, शक्तिस्तत्र सुदुर्लभाः ॥ १ ॥
विष्णुपुराणेऽपि कथितम् “त्रिवर्गसाधनं काव्यम्" काव्यालापाश्च ये केचिद्, गीतकान्यखिलानि च । शब्दमूत्तिधरश्चैते, विष्णोरंशा महात्मनः॥१॥
साहित्यरत्नमञ्जूषा-३ .