________________
तद्वद् तया प्रसिद्धन कमलेन सह पादौ उपमीयते कोमलत्वं साधारणधर्मः कमलमुपमानं पादौ उपमेयमिति उपमालङ्कारः ।
इयमुपमा तदुक्तिवैचित्र्येण नानालङ्कारभावं अवगाहते । तथाहि- "द्वयोपरुमानोपमेययोः सादृश्य - प्रतीतेः पूर्णोपमालङ्कारः । तथा च उक्तेषु चतुर्ष पदार्थेषु मध्ये कस्याप्येकस्यापि अभावे लोपे वा लुप्तोपमा भवति । पूर्णोपमाश्नौत्यार्थीभेदेन द्विधा । तेऽपि वाक्य-समास-तद्धित-गतत्वेन षड्विधे । एवं पूर्णोपमायाः षड्भेदाः धर्मलुप्तोपमा च तद्धितगतश्नौतिमन्तरोक्तभेदैः पञ्चधा । पुनरपि सा धर्मलुप्ता कर्मविहित - क्यचि, आधारविहितक्यचि, कर्मविहितणमुलि, कर्तृ विहितणमुलि क्याङि पञ्चधा भवति । उपमानलोपे वाक्यसमासगतत्वेन द्वौ भेदौ । वाक्यलोपे समासे क्विपि च द्वौ भेदौ उपमेयलोपे क्यचि एको भेदः धर्मोपमेयलुप्तैका ।
धर्मवाचकोपमानलुप्ता चैका समासगा । एवं संकलने लुप्तोपमायाः एकविंशतिभेदाः पूर्णतयाश्च षट भेदाः भवन्ति । सर्वे च सप्तविंशतिभेदाः उपमायाः । 'काव्यप्रकाशे' लुप्तोपमायाः एकोनविंशतिभेदाः, ते उक्तभेदेषु अन्तर्गताः, 'कुवलयानन्दे' तु वाचकोपमानलोपे एको भेदो
साहित्यरत्नमञ्जूषा-१८५