________________
तथा वैयाकरणवक्तरि कष्टत्वं वा दुःश्रवत्वं गुणः । एवं अधर्मोक्तिषु ग्राम्यत्वं गुणः । तथाऽन्यत्रापि विज्ञेयमिति । ___एतेषां दोषाणामाश्रयाणामपि संक्षिप्तवर्णनं अत्र क्रियते । शब्दनिष्ठाः दोषाः पदादिगतत्वेन पञ्चधा, अर्थदोषस्त्वेकविधः । 'काव्यप्रकाशादौ तु अर्थदोषो रसदोषश्चेति द्विविधोऽर्थदोषो वर्णितः । अलङ्कारादिदोषास्तूक्त भ्यो दोषेभ्यो न भिन्ना इति । अतः तेऽत्र न परिगणिताः । 'व्यक्तिविवेके' महिमभट्टन "तद् यथा विधेयाविमर्शः, प्रक्रमभेदः, क्रमभेदः, पुनरुक्तिः, वाच्यावचनञ्च" इति पञ्चैव दोषाः वरिणताः काव्यडाकिनी नाम्ने चिरञ्जीव भट्टाचार्यग्रन्थे दोषा एव प्रतिपादिताः ।
कलिकालसर्वज्ञश्रीमद्हेमचन्द्राचार्येण श्रुतिकटुत्वं, च्युतसंस्कृतित्वं, अप्रयुक्तत्वं, असमर्थत्वं, निहतार्थत्वं, अनुचितार्थत्वं, निरर्थकत्वं, अवाचकत्वं, ब्रीडाजनकाश्लीलत्वं, अमङ्गलजनकाश्लीलत्वं, सन्दिग्धत्वं, अप्रतीतत्वं, ग्राम्यत्वं, नेयार्थत्वं, क्लिष्टत्वं, अविमृष्ट विधेयांशत्वं, विरुद्धमतिकृतत्वं चेत्यादिदोषाः प्रतिपादिताः । एषु श्रुतिकटुत्वादि ये दोषाः अत्र वर्णिताः पददोषाः वाक्यदोषाश्च । निरर्थकत्वावाचकत्व - क्लिष्टत्वादयः पदमात्रगाः । अन्येऽपि चतुर्दशदोषाः अर्थमात्रगाः । यथा-अपुष्टार्थत्वं, कष्टत्वं, व्याहतत्वं,
साहित्य-११
साहित्यरत्नमञ्जूषा-१६१ .